________________ 426 सिद्धहैमबृहत्मक्रिया. [तद्धित प्रत्ययः स्यात् / मत्वादीनामपवादः / अच्छावाक् शद्धोऽत्र सूक्तेऽस्ति अच्छावाकीयम् / मैत्रावरुणीयम् / सान्नि-यज्ञायज्ञीयं साम। अशनापिपासीयम्। वारतन्तवीयम् साम / अथास्यवामीयं सूक्तं कयानश्चित्रीयं सामेत्यत्र 'ऐकायें इति विभक्तिलोपः कथं न भवति? उच्यते / अस्यवामादयः सूक्तखामस्थानामनुकार्याणामखण्डाएवानुकरणशद्धाः नात्र विभक्तिरिति लुप् न भवति / अतएव प्रथमान्ततापि न विरुध्यते। सूक्तसाम्नी ग्रन्थविशेषौ। . 2124 लुब् वाध्यायानुवाके // 7 // 2 // 72 // अध्यायेऽनुवाके चाभिधेये मत्वर्थे य ईयस्तस्य लुब् वा स्यात् / अत एव लुब्वचनादध्यायानुवाकयोरीयोऽनुमीयते / एतावपि ग्रन्थविशेषौ। गर्दभाण्डशद्धोऽस्मिन्नध्यायेऽनुवाके वास्तीति गर्दभाण्डः गर्दभाण्डीयोऽध्यायोऽनुवाको वा। एवं दीर्घजीवितिः। दीर्घजीवितीयः / पलितस्तम्भः। पलितस्तम्भीयः। पलितः। पलितीयः। स्तम्भः। स्तम्भीयः। उच्छिष्टः उच्छिष्टीयः / द्रुमपुष्पः द्रुमपुष्पीयः / 2125 विमुक्तादेरण // 7 / 2 / 73 // विमुक्तादिभ्यो मत्वर्थेऽध्यायानुवाकयोरभिधेययोरण् प्रत्ययः स्यात् / विमुक्तशब्दोऽस्मिन्नध्यायेऽनुवाकेऽस्ति वैमुक्तः / दैवासुरः। ____2126 घोषदादेरकः // 7 // 274 // घोषदादिभ्यो मत्वर्थेऽध्यायानुवाकयोरभिधेययोरकः प्रत्ययः स्यात् / घोषच्छब्दोऽस्मिन्नस्ति घोषदकः / गोषदकः। ईषदकः अध्यायोऽनुवाको वा। 2127 प्रकारे जातीयर् // 7 // 2 / 75 / / तदस्येति वर्तते / तदिति प्रथमान्तादस्येति षष्ठयर्थे जातीयर् प्रत्ययः स्यात् यत्तत् प्रथमान्तं तच्चेत् प्रकारो भवति / सामान्यस्य भिद्यमानस्य यो विशेषो विशेषान्तरानुप्रवृत्तः स प्रकारः / पटुः प्रकारोऽस्य पटुजातीयः / रित्करणात् पट्वी प्रकारोऽस्या 'पटुजातीया' इत्यत्र / 2128 रिति // 6 // 2 // 58 // परतः स्यनूङ् रिति प्रत्यये जातीये देशीये च पुंवत् स्यात् / इत्यनेन पुंकद्भावः। मृदुजातीयः। यज्जातीयः। तज्जातीयः। नानाभूतः प्रकारोऽस्य नानाजातीयः। एवंमकारोऽस्य एवंजातीयः / अस्येति षष्ठयथै विधानात् प्रकारवति जातीयर् विज्ञायते / ततः प्रकारमात्रभावियाथ