________________ 429 प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. साधुटत्तोऽन्यानतिक्रम्य वृत्तेन गृह्यते / साध्वाचार इति संभाव्यत इत्यर्थः / अतिशयेन वा ग्रहणमतिग्रहः। तत्रातिशयेन गृह्यत इत्यर्थः। अचलनमक्षोभणमव्यथा अभीतिर्वा ।वृत्तेन न व्यथते वृत्ततो न व्यथते / वृत्तेन न चलति न विभेति चेत्यर्थः। क्षेपातिग्रहाव्यथेष्विति किम् / वृत्तेन भिन्नः। अकर्तुरिति किम् / देवदत्तेन क्षिप्तः। तृतीयाया इति किम् / देवदत्तं क्षिपति / 2139 पापहीयमानेन // 7 // 2 // 86 // अकर्तृवाचिनस्तृतीयान्तात् पापहीयमानाभ्यां योगे तमुः प्रत्ययः स्यात् / वृत्तेन पापः वृत्ततः पापः। वृत्तेन हीयते वृत्ततः हीयते / पापहीयमानेनेति किम् / चारित्रेण शुद्धः / अकर्तुरित्येव / चैत्रेण हीयते / तृतीयाया इत्येव / ग्रामे हीयते / क्षेपस्याविवक्षायां तत्त्वाख्याने यथा स्यादिति वचनम् / 2140 प्रतिना पञ्चम्या // 7 // 2 // 87 // प्रतिना योगे या पश्चमी विहिता तदन्तात् तसुः प्रत्ययो वा स्यात् / अभिमन्युरर्जुनात् प्रति अर्जुनतः प्रति वा / अर्जुनस्य प्रतिनिधिरित्यर्थः / माषानस्मै तिलेभ्यः प्रतियच्छन्ति तिलतः प्रतियच्छति / पञ्चम्या इति किम् / वृक्षं प्रति विद्योतते विद्युत् / 2141 अहीयरुहोऽपादाने // 7 // 2 / 88 // अपादाने या पञ्चमी विहिता तदन्तात्तसुः प्रत्ययो वा स्यात्तच्चेदपादानं हीयरुहोः संबंधि न भवति / ग्रामाद ग्रामतो वा आगच्छति / चौरात् चौरतो वा बिभेति / अहीयरुह इति किम् / सार्थात हीयते सार्थाद्धीनः / पर्वतादवरोहति / सार्थादिति कर्तुरपायेऽवधिविवक्षा। सार्थन हीयते / देवदत्त इत्यर्थः। हीयते इति कर्मकर्तरीत्यन्ये / सार्थात् स्वयमेव हीयते देवदत्त इत्यर्थः। हीयेति क्यान्तस्य जहानिर्देशो जिहीते इत्यस्य व्युदासार्थः। तेन तत्र प्रतिषेधो न भवति / भूमित उजिहीते। हागिति निर्देशेनैव हाङो निवृत्तिसिद्धौ हीयेति निर्देशो यत्रैव भावे कर्मणि कर्मकर्तरि च जहातेः प्रयोगस्तत्रैवापायविवक्षा नान्यत्रेत्येवमर्थम् / तेन सार्थाजहातीति न भवति / अपादान इति किम् / ऋते धर्मात् कुतः सुखम् / आपाटलिपुत्राद् दृष्टो मेघः / 2142 किमयादिसर्वाद्यवैपुल्यबहोः पित्तस् // 7 / 2 / 89 // पञ्चम्या इत्यनुवर्तते / किंशद्वाद् यादिवर्जितेभ्यः सर्वादिभ्योऽवैपुल्यवाचिनो बहुशवाच