________________ 422 . सिद्धहैमबृहत्प्रक्रिया. तद्धित प्रत्ययो वा स्यान्मतुश्च / कृपालुः / कृपावान् / हृदयालुः। हृदयिकः / हृदयी / हृदयवान् / 2095 केशाद्वः // 7 // 2 // 43 // केशशद्वान्मत्वर्थे वः प्रत्ययो वा स्यान्मतुश्च / केशवः / केशिकः / केशी / केशवान् / केशव इति रूढिशद्धोऽपि विष्णुवाची / 2096 मण्यादिभ्यः // 7 // 44 // मण्यादिभ्यो मत्वर्थे वः प्रत्ययो वा स्यान्मतुश्च / योगविभागाद्वेति निवृत्तम् / मणिवः / मणिमान् / सिध्मादिपाठात् मणिलः / हिरण्यवः / हिरण्यवान् / बिम्बावम् / कुररावम् / कुरवावम् / ' घज्युपवर्गस्य बहुलम् ' इति बाहुलकाहीर्घः / राजीवम् / इष्टकाम् / गाण्डीवम् / गाण्डिवम् / अजकावम् / बिम्बावम् / इत्यादयो रूढिशद्धाः / रूढिशद्वविषये च मतुर्न भवति / विषयान्तरे तु भवत्येव / विम्बवानित्यादि / 2097 हीनात् स्वाङ्गादः // 7 // 2 // 45 // हीनोपाधिकात् स्वाङ्गान्मत्वर्थे अः प्रत्ययः स्यात् / खण्डः कोऽस्यास्ति कर्णः। छिन्ना नासिकाऽस्यास्ति नासिकः / हीनादिति किम् / कर्णवान् / नासिकावानित्येव भवति / 2098 अभ्रादिभ्यः // 7 / 2 / 46 // अभ्रादिभ्यो मत्वर्थे अ; प्रत्ययः स्याद् यथादर्शनं मतुश्च / अभ्राण्यस्मिन्सन्ति अभ्र नभः। अस्यिस्य सन्ति अर्शसो देवदत्तः / उरसः / उरस्वान् / अभ्रादिराकृतिगणः। 2099 अस्तपोमायामेधास्त्रजो विन् // 42 / 47 / / असन्तेभ्यस्तपसूमायामेधास्रज् इत्येतेभ्यश्च मत्वर्थे विन प्रत्ययः स्यान्मतुश्च / यशस्वी / यशस्वान् / सरस्वी / सरस्वान् / सरस्वती / एवं तेजस्वी / वर्चस्वी / तपस्वी / तपस्वान् / असन्तत्वेनैव सिद्धे तपसो ग्रहणं ज्योत्स्नाधणा बाधा माभूदित्येवमर्थम् / मायावी / मायावान् / मायी मायिक इति ब्रीह्यादिपाठात् / मेधावी / मेधावान् / स्रग्वी / स्रग्वान्। 2100 आमयादीर्घश्च ॥७॥रा४८॥ आमयशद्वान्मत्वर्थे विन् प्रत्ययः स्यादीर्घश्वामयशद्रस्य भवति मतुश्च / आमयावी / आमयवान् / 2101 स्वामिन्नीशे / / 7 / 2 / 49 // स्वशद्धान्मत्वर्थे ईशे वाच्ये मिन् प्रत्ययः स्यादीर्घश्चास्य / स्वमस्यास्तीति स्वामी / ईश इति किम् / स्क्वान् /