________________ प्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. 421 वैपादिकं कुष्ठम् / कौतुपं गृहम् / कौण्डलो युवा / तापसः पाखण्डी / साहस्रो देवदत्तः। मतौ ज्योत्स्नावान् तमिस्रावानित्यादि / तापस इति रूढिविषये च मतुर्न भवति / कुण्डली सहस्री चेति शिखादित्वात् / ज्योत्स्नादयः प्रयोगगम्याः। 2087 सिकताशर्करात् / / 7 / 2 / 36 // सिकता शर्करा इत्येताभ्यां मत्वर्थेऽण् प्रत्ययः स्यात् मतुश्च / सैकतः। सिकतावान् देशः। शार्करः। शर्करावानोदनः। 2088 इलश्च देशे // 7 // 2 // 36 // सिकताशर्कराभ्यां देशे मत्वर्थे इलश्चकारादण च प्रत्ययौ स्यातां मतुश्च / सिकतिलः सैकतः सिकतावान् देशः। शर्करिलः शार्करः शर्करावान् देशः / सिकताः देशः शर्कराः देशः इत्यभेदोपचारात् / 2089 युद्रोमः / / 7 / 2 / 37 // छु इति दिवः कृतोकारस्य निर्देशः घुशद्ध उकारान्तोऽहःपर्यायः प्रकृत्यन्तरं वा / युद्रुशद्धाभ्यां मवर्थे म; प्रत्ययः स्यात् / द्यौद्युस्यास्मिन् वास्तीति घुमः। दूणि दारुणि अस्यास्मिन् वा सन्तीति द्रुमः। रूढिशद्वाविमौ रूढिविषये च मतुर्न भवति / अन्यत्र तु मतुरेव / घुमान् / द्रुमान् / 2090 काण्डाण्डभाण्डादीरः ॥७॥२॥३८॥काण्ड आण्ड भाण्ड इत्येतेभ्यो मत्वर्थे ईरः प्रत्ययः स्यान्मतुश्च / काण्डीरः / काण्डवान् / आण्डीरः। आण्डवान् / भाण्डीरः / भाण्डवान् / आण्डौ मुष्कौ / 2091 कच्छ्वा डुरः // 7 // 2 // 39 // कच्छूशद्धान्मत्वर्थे डुरः प्रत्ययः स्यात् / कच्छुरः / कच्छूमान् / 2092 दन्तादुन्नतात् // 72 / 40 // उन्नतत्वोपाधिकाद्दन्तशद्धान्मत्वर्थे डुरः प्रत्ययः स्यात् / उन्नता दन्ता अस्य सन्ति दन्तुरः। उन्नतादिति किम् / दन्तवान् / . 2093 मेधारथान्नवेरः // 12 // 41 // मेधा रथ इत्येताभ्यां मत्वर्थे इरः प्रत्ययो वा स्यात् / वावचनाद्यथाप्राप्तमिकेनौ आ यादिति मतुश्च / मेधिरः / मेधावान् / उत्तरसूत्रेण विन्नपि / मेधावी / रथिरः / रथिका रथी / रथवान् / 2094 कृपाहृयादालुः // 7 // 2 // 42 // कृपा-हृदय-शद्धाभ्यां मत्वर्थे आलुः