SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ 420 सिद्धहैमबृहत्पक्रिया. [तद्धित मत्वर्थे यथासंख्यं श इल इत्येतौ प्रत्ययौ स्यातां मतुश्च / लोमशः। लोमवान् / रोमशः / रोमवान् / पिच्छिलः। पिच्छवान् / उरसिलः / उरस्वान् / 2081 नोऽङ्गादेः // 7 / 2 / 29 // अङ्ग इत्येवमादिभ्यो मत्वर्थे नः प्रत्ययः स्यान्मतुश्च / अङ्गान्यस्याः सन्ति अङ्गना। रूढिशरोऽयम् / कल्याणाङ्गी स्त्री उच्यते / इतिकरणात् अन्यत्राङ्गवती / पामनः / पामवान् / वामनः / वामवान् / योगविभाग उत्तरार्थः। __2082 शाकीपलालीदवा ह्रस्वश्च // 7 // 2 // 30 // शाकी पलाली दर्दू इत्येतेभ्यो मत्वर्थे नः प्रत्ययः स्यान्मतुश्च नसंनियोगे चैषां इस्वोऽन्तादेशः। महच्छाकं शाकसमूहो वा शाकी / महत्पलालं पलालक्षोदो वा पलाली / दर्नाम व्याधिः / शाकिनः / शाकीमान् / पलालिनः / पलालीमान् / दद्रुणः / दमान् / केचित्तु शाकीपलाल्योईस्वत्वं नेच्छन्ति, तन्मते शाकीनः। पलालीनः।.. 2083 विष्वचो विषुश्च // 7 / 2 / 31 // विष्वच् इत्येतस्मान्मवर्थे नः प्रत्ययः स्याद् विषु इत्ययं चादेशो भवति / विषु अञ्चतीति विष्वक् / विश्वञ्चो रश्मयो विष्वग्नतानि वा अस्य सन्ति इति विषुणः आदित्यः। विषुणः वायुः / विषुशद्धो निपातो नानात्वे वर्तते / विष्वगिति अखण्डमव्ययं वा। नकारसंनियोगे आदेशस्य विधानात् मतौ विष्वग्वान् / कथं विषुमानहोरात्रमविभाग इति / विषुर्नाम मुहूर्तस्तस्माद् भविष्यति / .. 2084 लक्ष्म्या अनः // 7 // 2 // 32 // लक्ष्मीशद्वान्मत्वर्थेऽनः प्रत्ययः स्यात् / लक्ष्मीरस्यास्तीति लक्ष्मणः / मतौ लक्ष्मीवान् / 2085 प्रज्ञाश्रद्धा वृत्तर्णः // 7 // 2 // 33 // प्रज्ञाश्रद्धा_त्ति इत्येतेभ्यो मत्वर्थे णः प्रत्ययः स्यान्मतुश्च / प्राज्ञः प्रज्ञावान् / श्राद्धः। श्रद्धावान् / आर्चः / अर्चावान् / वार्तः। दृत्तिमान् / स्त्री तु प्राज्ञा / श्राद्धा / आर्चा / वार्ता / प्राज्ञीति स्वार्थिकाणन्तात् / 2086 ज्योत्स्नादिभ्योऽण् // 7 // 2 // 34 // ज्योत्स्ना इत्येवमादिभ्यो मत्वर्थेऽण् प्रत्ययः स्यात् / ज्योत्स्ना अस्मिन्नस्ति ज्योत्स्नः पक्षः / ज्योत्स्नी रात्रिः / तामिस्रः पक्षः। तामिस्त्री रात्रिः / तामिस्राणि गुहामुखानि / वैसो व्याधिः /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy