SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्यनिया. 2075 कालाजटाघाटात् क्षेपे // 7 // 2 // 23 // काला जटा घाटा इत्येतेभ्यो ल इल इत्येतो प्रत्ययौ स्यातां क्षेपे-प्रत्ययार्थस्य निन्दायां गम्यमानायाम् / कालालः। कालिलः। कालेति डोपान्त्यं केचित् पठन्ति। काडालः काडिल:। जटालः। जटिलः। घाटालः / धाटिलः। मतुना क्षेपो न गम्यत इति क्षेपे मतुर्न भवति / क्षेप इति इति किम् / कालावान् / जटावान् / घाटावाम् / 2076 वाच आलाटौ // 7 // 2 // 24 // वाच इत्येतस्मान्मत्वर्थे आल आट इत्येतौ प्रत्ययौ स्यातां क्षेपे गम्यमाने / ग्मिनोऽपवादः। वाचालः / वाचाटः / यो बहु निःसारं भाषते स एवं शिष्यते / मतुना क्षेपो न गम्यत इति क्षेपे मतुर्न भवति / क्षेपे इत्येव / वाग्मी / वाग्वान् / 2077 ग्मिन् // 7 // 2 // 26 // क्षेपे इति निवृत्तम् / काचो मत्वर्थे ग्मिन् प्रत्ययः स्यान्मतुश्च / वाग्ग्मी / वाग्वान् / गकारः प्रत्यये चेत्यनुनासिकनिवृत्त्यर्थः / क्षेप इति निवृत्तम् / 2078 मध्वादिभ्यो रः // 7 // 2 // 26 // मध्वादिभ्यो मत्वर्थे रः प्रत्ययः स्यात् / अत्र मधुशद्धः स्वादुत्वे गुणत्वे गुणसामान्ये वर्तते / मधुरं मधु / मधुरं क्षीरम् / क्षौद्रादिद्रव्यवृत्तेस्तु मतुरेव इतिकरणानुवृत्तेः। मधुमान् घटः एवं खं महत् कण्ठविवरमस्यातीति खरो गर्दभः / खवानन्यः / मध्वादयः प्रयोगगम्याः। ___ 2079 कृष्यादिभ्यो वलच् // 7 / 2 / 27 // कृष्यादिभ्यो मत्वर्थे वलच प्रत्ययः स्यात् / कृषीवलः कुटुम्बी / कृषिमत् क्षेत्रम् / आसुतीवलः कल्यपालः। आसुतिमान् / परिषद्बलः। परिषद्वान् / पर्षद्वलः। पर्षद्वान् / परिषदलं तीर्थ पङ्किलमित्यर्थः / परिषद्वत् / रजस्वला स्त्री / रजस्वान् ग्रामः / केचित्तु रजस्वलो देशः। रजस्वला भूमिः रजस्वान् रजखतीति सर्वत्राविशेषेण वृत्तिमिच्छन्ति। दन्तावलो नाम राजा हस्ती च / शिखावलं नगरम् / शिखावलो मयूरः। शिखावला स्थूणा / दन्तवान् / शिखावानन्यः / मातृवलः मातृमान् / एवं पितृवलः / भ्रातृवलः / उत्साहवल:। पुत्रवलः। उत्सङ्गवलः। विशेष इतिकरणात् सिद्धः। कृष्यादयः प्रयोगगम्याः। 2080 लोमापिच्छादेः शेलम् WOR28 // लोमादिभ्यः पिच्छादिभ्यश्च
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy