________________ सिद्ध हैमबृहत्मक्रिया. [तद्धित 2070 केशंभ्यां युस्तियस्तुतवभम् // 7 // 2 // 18 // कंश इत्येताभ्यां मत्वर्थे गुस् ति यस् तु त व भ इत्येते प्रत्ययाः स्युः। कंयुः। शंयुः। कन्तिः। शन्तिः। कंयः / शंयः। कन्तुः। शन्तुः। कन्तः। शन्तः। कंवः। शंवः। कंभः। शंभः। युस्यसोः सकारो ' नाम सिदव्यंजने' इति पदत्वार्थः। तेन 'तो मुमो व्यंजने स्वौ' इत्यनुस्खारानुनासिको सिद्धौ। कंयुः। कँय्युः। शंयः। शय्यः। 2071 बलवातदन्तललाटादूलः // 7 // 2 // 19 // एभ्यो मत्वर्थे उलः प्रत्ययः स्यात् मतुश्च / बलूलः। बलवान् / वातूलः। वातवान् / दन्तूलः / दन्तवान् / ललाटूलः / ललाटवान् / 2072 प्राण्यङ्गादातो ला // 7 // 2 // 20 // प्राण्यङ्गवाचिन आकारान्तान्मत्वर्थे लः प्रत्ययः स्यान्मतुश्च। चूडालः। चूडावान् / जङ्घालः। जङ्घावान् / शिखालः। शिखावान् / प्राण्यङ्गादिति किम्। जङ्घावान् प्रासादः। शिखावान् प्रदीपः। अङ्गग्रहणं किम् / इच्छावान् / वासनावान् / कर्णिकाल इत्यत्र कर्णिकाशब्दः प्राण्यङ्गस्यैव वाचक इत्याहुः। आत इति किम् / हस्तषान् / पादवान् / 2073 सिध्मादिक्षुद्रजन्तुरुभ्यः // 7 / 2 / 21 // सिध्मादेर्गणात् क्षुद्रजन्तुवाचिभ्यो रुग्वाचिभ्यश्च मत्वर्थे ला प्रत्ययः स्यान्मतुश्च / सिध्मान्यस्य सन्ति सिध्मलः / सिध्मवान् / वर्मलः / व वान् / अङ्गादित्वान्ने वर्मनः / गडुलः / गडुमान् / पाणीधमनीशब्दौ दीर्घान्तावेव गणे पठ्येते तेन दीर्घान्ताभ्यामेव लः / पामलः। धमनीलः। इस्वान्ताभ्यां तु मतुरेव / पाणिमान् / धमनिमान् / क्षुद्रजन्तु / यूकालः यूकावान् / मक्षिकालः मक्षिकावान् / आ नकुलात् क्षुद्रजन्तवः / रुक्मूर्छालः। मूर्छावान् / विचचिकालः। विचचिकावान् / रुग्भ्य इति बहुवचनं खरूपविधिनिषेधार्थम् / कथं वत्सलः स्नेहवान् अंसलो बलवान् ? नात्र कश्चिद् वत्साद्यर्थोऽस्तीति पेशलकुशलादिवदेतौ यथाकथंचिद् व्युत्पादनीयौ सिध्मादिषु वा पठनीयौ। 2074 प्रज्ञापर्णोदकफेनाल्लेलौ // 7 / 2 / 22 // प्रज्ञा पर्ण उदक फेन इत्येतेभ्यो मत्वर्थे ल इल इत्येतौ प्रत्ययौ स्यातां मतुश्च / प्रज्ञालः। पशिलः। प्रज्ञावान् / पर्णलः / पणिलः / पर्णवान् / उदफला / उदकिलः॥ उदकवान् / फेनलः। फेनिलः। फेनवान् /