________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 417 शाली / शालिमान् / व्रीहिशब्दोऽपि व्रीह्यों भवति किंतु तस्य पूर्वत्रोपादानादिलो न भवति / भावे हि तत्रोपादानमनर्थकं स्यात् / भवतीत्येके / व्रीहिलः / तुन्दादितुन्दिलः / तुन्दिकः। तुन्दी / तुन्दवान् / उदरिलः / उदरिकः ! उदरी / उदरवान् / 2062 स्वाङ्गाद्विवृद्धात्ते // 7 // 2 // 10 // स्वाङ्गाद्विवृद्धोपाधिकान्मत्वर्थे तेइल इक इन इत्येते प्रत्ययाः स्युर्मतुश्च / विवृद्धौ महान्तौ कर्णावस्य स्तः कर्णिलः। कर्णिकः। कर्णी। कर्णवान् / ओष्ठिलः। ओष्ठिकः। ओष्ठी। ओष्ठवान / विवृद्धादिति किम् / अन्यत्रेलो न भवति। अतोऽनेकस्वरादितीकेन्मतव एव भवन्ति / 2063 वृन्दादारकः // 7 // 2 // 11 // वृन्दशद्धान्मत्वर्थे आरकः प्रत्ययः स्यान्मतुश्च / वृन्दारकः / वृन्दवान् / शिखादित्वाद् वृन्दी। 2064 शृङ्गात् / / 7 / 2 / 12 // शृङ्गान्मत्वर्थे आरकः प्रत्ययः स्यान्मतुश्च / शृङ्गारकः / शृङ्गवान् / शिखादित्वात् शृङ्गी / 2065 फलबहऱ्याचेनः // 7 // 2 // 13 // फल बई इत्येताभ्यां शृङ्गाच्च मत्वर्थे इनः प्रत्ययः स्यान्मतुश्च / फलिनः / फलवान् / वहिणः / बर्हवान् / शृङ्गिणः। शृङ्गवान् / शिखादित्वात् फली / बीं। 2066 मलादीमसश्च // 7 // 2 // 14 // मलशब्दान्मत्वर्थे ईमस इनश्च प्रत्ययौ स्यातां मतुश्च / मलीमसः। मलिनः। मलवान / 2067 मरुत्पर्वणस्तः // 7 // 2 / 15 // मरुत् पर्वन् इत्येताभ्यां मत्वर्थे तः प्रत्ययः स्यान्मतुश्च / मरुत्तः। मरुत्त्वान् / पर्वतः। पर्ववान् / 2068 वलिवटितुण्डेर्भः // 7 // 2 // 16 // वलि वटि तुण्डि इत्येतेभ्यो मत्वर्थे भः प्रत्ययः स्यान् मतुश्च / वलिभः / वलिवान् / वलिन इत्यंगादित्वान्नः। वटिभः / तुण्डिभः। सिध्मादिपाठाल्ले तुण्डिलः। प्रवृद्धा नाभिस्तुण्डिः। ___ 2069 ऊर्णाहशुभमो युस् / / 7 / 2 / 17 // ऊर्णा अहम् शुभम् इत्येतेभ्यो मत्वर्थ युस् प्रत्ययः स्यात् / ऊर्णायुः उरभ्रः। अहंयुः अहंकारी। शुभंयुः कल्याणबुद्धिः /