________________ 416 सिद्धहैमबृहत्मक्रिया. [तद्धित खवान् / स्ववान् / अभिधानार्थस्येतिकरणस्यानुसत्तेः कृदन्तान भवतः। राप्यवान् लाप्यवान् लव्यवान् हव्यवान् कृत्यवान् भृत्यवान् कारकवान् हारकवान् कुंभकारवान् धान्यमायवान् हिंस्रवान् ईश्वरवान् पाकवान् स्नेहवान् / कचिद भवतःकार्यिकः कार्टी हार्यिकः हायी गृहिकः गृही दात्रिकः दात्री पात्रिकः पात्री भोगिकः भोगी तरिकः तरी विजयिकः विजयी संयमिकः संयमी स्थानिक; स्थानी इति / जातिशब्देभ्यो न भवतः / व्याघ्रवान् सिंहवान् वृक्षवान् प्लक्षवान् / तथा द्रव्यवान् क्रव्यवान् सस्यवान् धान्यवान् माल्यवान् पुण्यवान् सत्यवान् अपत्यवान् / कचिद् भवतः / तण्डुलिकः / तण्डुली / कर्पटिकः कर्पटी। धनादुत्तमणे भवतः / धनिकः / धनी / सप्तम्यर्थे च न भवतः। दण्डोऽस्मिन्नस्ति दण्डवद् गृहम् / कचिद् भवतः / खलिनी भूमिः। शालिनी भूमिः। रसरूपवर्णगन्धस्पर्शशब्दस्नेहेभ्यो गुणवाचिभ्यो न भवतः। कचिद् भवतः। रसिको नटः। रसी इक्षुः। रूपिको दारकः। रूपिणी कन्या / रूपिष्ववधिः। रूपिसमवायाचाक्षुषाणि / स्पर्शिको वायुः / गन्धिकः / गन्धी / तदेवं व्यभिचारे सूत्रणादभिधानमेव श्रेयः। / 2059 अशिरसोऽशीर्षश्च // 7 // 27 // अशिरःशब्दान्मत्वर्थे इक इन् इत्येतौ प्रत्ययौ स्याताम् मतुश्च तत्संनियोगे चाशिरःशब्दस्याशीर्ष इत्यादेशो भवति अशीपिकः / अशीर्षी / अशीर्पवान् / इकेनोः 'शीर्षः स्वरे तद्धिते ' इति शीर्षादेशो विद्यत एव, मतौ त्वशिरसोऽशीर्षभावोऽनेन विधीयते / ___ 2060 अर्थार्थान्ताद् भावात् // 7 // 28 // अर्थशद्वादान्ताच्च भाववाचिनो मत्वर्थे इक इन् इत्येतौ प्रत्ययौ स्याताम् / नियमार्थमिदम् / उभयथा चायं नियमो वाक्यभेदेन क्रियते / भाववाचिन एवैतौ प्रत्ययौ भाववाचिनश्चैतावेव / अर्थणि उपयाचने / अर्थनमर्थः। सोऽस्यास्तीत्यर्थिकः अर्थी / प्रतीपमर्थनं प्रत्यर्थः। सोऽस्यास्तीति प्रत्यर्थिकः प्रत्यर्थी / इकेनावेवेति नियमादतो मतुर्न भवति / भाषादेवेति नियमादतो द्रव्यवाचिन इकेनौ न भवतः। अर्थो हिरण्यादिरस्यास्तीति अर्थवान् इति मतुरेव भवति। . 2061 ब्रीह्यर्थतुन्दादोरलश्च // 7 // 2 // 9 // व्रीहिवाचिभ्यस्तुन्दादिभ्यश्च मत्वर्थे इलः प्रत्ययः स्यात् चकारात्तौ चेकेनौ आ यादिति मतुश्च / व्रीह्यर्थ-कलमा अस्यास्मिन् वासन्ति कलमिलः। कलमिकः। कलमी। कलमवान् / शालिलः। शालिकः।