________________ 423 प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 2102 गोः // 12 // 50 // गोशद्धान्मत्वर्थे मिन् प्रत्ययः स्यात् / गावोऽस्य सन्ति गोमी / मतुश्च / गोमान् / पूज्य एव मिनमिच्छन्त्यन्ये / ____2103 ऊर्जा विन्वलावश्चान्तः // 7 // 2 // 51 // उशिद्धान्मत्वर्थे विन् वल इत्येतौ प्रत्ययौ स्याताम् , तत्संनियोगे चास्यास् चान्तो भवति / ऊर्जस्वी / ऊर्जस्वलः। मतुश्च / ऊर्वान् / कथमूर्जस्वान् / ऊर्जयते; अस्प्रत्ययान्तस्य मतौ / _____2104 तमिस्रार्णवज्योत्स्नाः // 7 // 2 // 52 // तमिस्रार्णवज्योत्स्ना इत्येते शद्धा निपात्यन्ते / तमिस्रति तमःशद्वादः उपान्त्यस्य चेत्वम् / तमोऽत्रास्तीति तमिस्रा रात्रिः। तमिस्रं तमःसमूहः। तमिस्राणि गुहामुखानि / मतुश्च / तमस्वान् / अर्णवेति अर्णसो वः प्रत्ययः अन्त्यस्य च लोपः। अर्णवः समुद्रः। ज्योत्स्नेति ज्योतिःशद्धान्नः प्रत्ययः उपान्त्यलोपश्च निपात्यते / ज्योत्स्ना चन्द्रप्रभा / अन्यत्र ज्योतिष्मती रात्रिः। निपातनस्येष्टविषयत्वात् / 2105 गुणादिभ्यो यः // 72 // 53 // गुणादिभ्यो मत्वर्थे यः प्रत्ययः स्यात् मतुश्च / गुण्यः गुणवान् पुरुषः हिम्यः हिमवान् पर्वतः। कथं को गुणिनो नार्चयेत् इति इन् ? शिखाखादित्वेन भविष्यति / गुणादयः प्रयोगगम्या। 2106 रूपात् प्रशस्ताहतात् / / 7 / 2 / 04 // प्रशस्तोपाधिकादाहतोपाधिकाच रूपान्मत्वर्थे यः प्रत्ययः स्यात् / प्रशस्तं रूपमस्यास्ति रूप्यो गौः रूप्यः पुरुषः / आहतं रूपमस्यास्ति रूप्यः कार्षापणः। निघातिकाताडनादीनारादिषु यदूपमुत्पद्यते तदाहतं रूपम् / प्रशस्ताहतादिति किम् / रूपवान् / प्रशंसायां मतुरपि भवति / रूपवती कन्या। आहते न भवति इति करणात् / कथं रूपिणी कन्या रूपिको दारक इति ? ब्रीह्यादित्वाद् भविष्यति / आयादित्यस्य पूर्णोऽवधिः, अतः परं मतुर्नास्ति। 2107 पूर्णमासोऽण् / / 7 / 2 / 55 // पूर्णमास्शदान्मत्वर्थेऽण् प्रत्ययः स्यात् / पूर्णो माश्चन्द्रमा अस्यामस्ति पौर्णमासी। 2108 गोपूर्वादत इकण् / / 7 / 2 / 56 // गोशद्धपूर्वादकारान्तान्मत्वर्थे इकण प्रत्ययः स्यात् / मत्वादीनामपवादः। गौशतिकः गौसहस्रिकः अत इति किम् / गोविंशतिमान् / कथं गौशकटिकः। शकटीशब्देन समानार्थः शकटशब्दोऽस्ति /