________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 413 'भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने / / संसर्गेऽस्तिविवक्षायां प्रायो मखादयो मताः // 1 // भूम्नि-गोमान् / यवमान् / निन्दायां शङ्खोदकी। ककुदावर्ता / शंसायां-रूपवती शीलवती कन्या। नित्ययोगे-क्षीरिणो वृक्षाः कण्टकिनः। अतिशायने-उदरिणी कन्या। संसगै-दण्डी।छत्री।प्रायिकमेतद्भूमादिदर्शनं सत्तामात्रेऽपि प्रत्ययो दृश्यते। व्याघ्रवान् पर्वतः। स्पर्शरसगन्धवर्णवन्तः पुद्गलाः। रूपरसगन्धस्पर्शवती पृथिवी / रूपरसस्पर्शवत्य आपः। रूपस्पर्शवत् तेजः। स्पर्शवान् वायुः। यवमतीभिरद्भिपं प्रोक्षन्ति / तथा मत्वर्थीयान्मखर्थीयः सरूपो न भवति / गाव एषां सन्तीति गोमन्तः, गोमन्तः अत्र सन्तीति मतुर्न भवति / दण्ड एषामस्तीति दण्डिकाः, दण्डिका अत्र सन्तीति इको न भवति / विरूपस्तु भवत्येव / दण्डिमती शाला। विरूपोऽपि मवर्थीयः समानायां वृत्तौ न भवति। दण्ड एषामस्तीति दण्डिकाः, दण्डिनः / दण्डिका अस्य सन्ति दण्डिनोऽस्य सन्तीति इन्मतू न भवतः / शैषिकाच्छैषिको नेष्टः सरूपः प्रत्ययः कचित् / . समानवृत्तौ मत्वर्थान्मखर्थीयोऽपि नेष्यते // 1 // कचिदिति समानायामसमानायां च वृत्तौ। शालायां भवः शालीयः। दोरीय इतीये सति पुनः शालीये भवः शालीयस्यायं वेतीयो न भवति / विरूपस्तु भवत्येव / अहिच्छत्रे भव आहिच्छत्रः। तत्र भव आहिच्छत्रीयः। तथा असंज्ञाभूतात् कर्मधारन्मवर्थीयो न भवति / वीरपुरुषा अस्मिन् ग्रामे सन्ति / अत्र बहुव्रीहिरेव भवति / वीरपुरुषको ग्रामः। संज्ञायास्तु भवत्येव / गौरखरवदरण्यम् / कृष्णसर्पवान् वल्मीकः। लोहितशालिमान् ग्रामः। कथमैकगविकः सर्वधनीति। 'एकादेः कर्मधारयात् ' इत्याद्यारंभसामर्थ्याद् भविष्यति / तथा गुणे गुणिनि च ये गुणशद्धा वर्तन्ते तेभ्यो मत्वर्थीयो न भवति / शुक्लो वर्णोऽस्यास्तीति, तिक्तो रसोऽस्यातीति प्रत्ययमन्तरेणाप्येषां तदभिधाने सामर्थ्यात् / ये तु गुणमात्रे तेभ्यो भवत्येव / रूपवान् , रसवान् शौक्ल्यवान् कायॆवानिति / 2048 आ यात् // 72 // 2 // 'गुणादिभ्यो यः। 'रूपात प्रशस्ताहतात' इत्येतस्माद्यप्रत्ययात् याः प्रकृतयो, निर्देश्यन्ते ताभ्यो मतुः प्रत्ययः स्यात् तदस्यास्ति तदस्मिन्नस्तीत्यस्मिन् विषये / कुमारीमान् / व्रीहिमान् / आयादित्यभिवि