________________ 412 सिद्धहैमबृहत्पक्रिया. [वद्धित 2046 साक्षाद् द्रष्टा // 71 / 197 // साक्षाच्छब्दाद् द्रष्टेत्यस्मिन्नर्थे इन् प्रत्ययः स्यात् / साक्षाद् द्रष्टा साक्षी साक्षिणौ साक्षिणः। प्रायोऽव्ययस्येत्यन्त्यस्वरादिलोपः। नाम्नीत्येव / साक्षाद् द्रष्टा / // इति श्रीसिद्धहैमबृहत्पक्रियायां तद्धितप्रकरणे क्षेत्राद्यर्थकाः समाप्ताः॥ // अथ मत्वर्थीयाः॥ 2047 तदस्यास्त्यस्मिन्निति मतुः // 7 // 21 // तदिति प्रथमान्तादस्येति षष्टयर्थेऽस्मिनिति सप्तम्यर्थे वा मतुः प्रत्ययः स्यात् यत्तत् प्रथमान्तमस्तीति चेत्त द्भवति-अस्तिसमानाधिकरणं भवतीत्यर्थः / गावोऽस्य सन्ति गोमान् / यवमान् / वृक्षाअस्मिन् सन्ति वृक्षवान् प्लक्षवान् पर्वतः। अस्ति धनमस्य अस्तिमान् / स्वस्ति आरोग्यमस्यास्ति स्वस्तिमान् / अत्रास्तिस्वस्ती अव्ययौ धनारोग्यवचनौ / अस्तीति च सामान्याभिधायी। विशेषास्तेश्च सामान्यास्तिना सामानाधिकरण्यमुपपद्यत एव / अस्तीति वर्तमानकालोपादानात् वर्तमानसत्तायां प्रत्ययो भवति न भूतभविष्यत्सत्तायाम् गावोऽस्यासन् गावोऽस्य भवितार इति / न तर्हि इदानीमिदं भवति गोमानासीत् गोमान् भवितेति / भवति, नत्वेतस्मिन् वाक्ये भवति / तथा हि सति यथा गोमान् यवमानित्यत्रास्तेः प्रयोगो न भवति एवं गोमानासीत् गोमान् भवितेत्यत्रापि न स्यात् / भवतु वा प्रयोगः तथापि गावोऽस्यासन् गावोऽस्य भवितार इतिवत् गोमानासीदित्यादिष्वपि बहुवचनं श्रूयेत / का तह-यं वाचो युक्तिः गोमानासीत् गोमान् भवितेति / एषैषा वाचोयुक्तिः / नैषा गवां सत्ता कथ्यते गोमत्सत्तैषा कथ्यते / तर्हि कथं मतुः। अस्त्यत्र वर्तमानकालोक्तिः। कथं तर्हि भूतभविष्यत्कालता गम्यते। 'धातोः संबंधे प्रत्ययाः' इति / अथेह कस्मान्न भवति-चित्रा गावोऽस्य सन्ति स चित्रगुः शवलगुरिति। बहुव्रीहिणैव मवर्थस्योक्तलात् / एवं पूर्वशालः अपरशालः पञ्चगुः दशगुरित्यत्राप्यस्तीतिपदसापेक्षं तद्धितद्विगुं द्वैमातुर इत्यादौ सावकाशं वाधिव! अस्तिपदनिरपेक्षवादन्तरङ्गेण बहुव्रीहिणा भवता उक्तार्थवान्मतुर्न भवति। अस्तीति किम् / गावोऽस्यानन्तरा गावोऽस्य समीपाः / अनन्तरादिष्वपि स्यात् / इतिकरणो विवक्षार्थः / तेन