________________ प्रकरणम् ] सिद्धहैमबृहत्यक्रिया. मुख्योऽस्य देवदत्तकः संघः। जिनदत्तकः। देवदत्तो मुख्य एषां देवदत्तकाः। जिनदत्तकाः। मुख्य इति किम् / देवदत्तः शत्रुरेषाम् / / 2040 शृङ्खलकः करभे // 71 / 191 // शृङ्खलकशब्दः कप्रत्ययान्तो निपात्यते करभे उष्ट्रशिशौ वाच्ये / शृङ्खलं बन्धनमस्य शृङ्खलकः करभः। करभाणां काष्ठमयं पादबन्धनं शृङ्खलम् / वयःशब्दश्वायम् / शृङ्खलं बन्धनं भवतु वा मा भूत् / 2041 उदुत्सोरुन्मनसि // 71 / 192 // उत् उत्सु इत्येताभ्यामस्येत्युन्मनस्यभिधेये कः प्रत्ययः स्यात् / उद्गतं मनोऽस्य उत्कः। उत्सुगतं मनोऽस्य उत्सुकः। उन्मनाः इत्यर्थः। 2042 कालहेतुफलाद्रोगे // 7 / 1 / 193 // स इति वर्तते / स इति प्रथमान्तेभ्यः कालविशेषवाचिभ्यो हेतुवाचिभ्यः फलवाचिभ्यश्चास्येति षष्ठयर्थे कः प्रत्ययः स्यात् यत्तदस्येति निर्दिष्टं रोगश्चेत्तद्भवति। द्वितीयो दिवसोऽस्याविर्भावाय द्वितीयकः / तृतीयकः / चतुर्थको ज्वरः / सततः कालोऽस्य सततको ज्वरः। हेतुविषपुष्पं हेतुरस्य विषपुष्पकः रोगः। काशपुष्पकः पर्वतको रोगः। फल-शीतं फलं कार्यमस्य शीतको ज्वरः। रोग इति किम्। द्वितीयो दिवसोऽस्य जातस्य बालस्य। 2043 प्रायोऽनमस्मिन्नानि // 7 / 1 / 194 // स इति वर्तते / स इति प्रथमान्तादस्मिन्निति सप्तम्यर्थे नाम्नि-संज्ञायां विषये कः प्रत्ययः स्यात् यत्तत्पथमान्तं तच्चेदनं प्रायः। प्रायशब्दोऽत्रानसमानाधिकरणो नियतलिङ्गसंख्यः। प्रायः अकृत्स्नबहुत्वम् / गुडापूपाः प्रायेण पायो वाऽन्नमस्यां गुडापूपिका पौर्णमासी। तिलापूपिका / कृशरिका / त्रिपुटिका / नाम्नीति किम् / अपूपाः प्रायेण प्रायो वान्नमवन्तिषु / 2044 कुल्मासादः // 71 / 195 // कुल्मासशब्दात् प्रथमान्तात् प्रायोऽनमस्मिन्नित्यर्थेऽण प्रत्ययः स्यात् नाम्नि / कुल्मासाः प्रायेण पायो वान्नमस्यां पौर्णमास्यां कौल्मासी / कुल्मास इति मूर्धन्योपान्त्योऽप्यस्ति / - 2045 वटकादिन् // 7 // 1 / 196 // वटक्रशद्धात् प्रथमान्तात् प्रायोऽन्नमस्मिनित्यर्थे इन् प्रत्ययः स्यात् संज्ञायाम् / वटकानि प्रायेण प्रायो वान्नमस्यां वटकिनी /