SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ सिद्धहैमबृहत्मक्रिया. [तद्धित 2032 तन्त्रादचिरोद्धते // 7 / 1 / 1.83 // तंत्रशब्दानिर्देशादेव पञ्चम्यन्तादचिरोद्धृते-अचिरादुत्तीर्णेऽर्थे कः प्रत्ययः स्यात् / तन्त्रात्-पटवानोपकरणादचिरोत्तीर्णः तन्त्रका पटः। प्रत्यग्र इत्यर्थः / 2033 ब्राह्मणान्नानि // 7 / 1 / 184 // ब्राह्मणशब्दानिर्देशादेव पञ्चम्यन्तादचिरोद्धृतेऽर्थे नाम्नि-संज्ञायां कः प्रत्ययः स्यात् / सदाचारब्राह्मणेभ्यस्तदानीमेवोद्धत्य पृथक्कृतः ब्राह्मणको नाम देशः। यत्रायुधजीविनः काण्डस्पृष्टा नाम ब्राह्मणा भवन्ति / आयुधजीवी ब्राह्मण एव ब्राह्मणक इत्यन्ये / 2034 उष्णात् // 71 / 185 // उष्णशब्दात् पञ्चम्यन्तादचिरोद्धतेऽर्थे कः प्रत्ययः स्यात् नानि / उष्णादग्नेरचिरोद्धृता उष्णिका यवागूः। अल्पान्ना पेया विलेपिकेति यावत् / उष्णकुण्डानिस्ता नदीति केचित् / / 2035 शीताच कारीिण // 7 / 1 / 186 // शीतादुष्णाच सामर्थ्याद् द्वितीयान्तात् कारिण्यर्थे कः प्रत्ययः स्यात् नान्नि / शीतं मन्दं करोति शीतकोऽलसः। उष्णं क्षिप्रं करोति उष्णको दक्षः। नाम्नीत्यनुवृत्तेः शीतोष्णशद्वाविह मान्यशीघ्रवचनौ गृह्यते न स्पर्शवचनौ / क्रियाविशेषणत्वाद् द्वितीया / शारीत्यावश्यके णिन् / ___ 2036 अधेरारूढे // 7 / 1 / 187 // अधिशद्वादारूढेऽर्थे वर्तमानात् स्वार्थे कः प्रत्ययः स्यात् / आरूढशब्दः कर्तरि कर्मणि च क्तमत्यये सिद्धः। तत्र यदा कर्तरि तदा अधिको द्रोणः खार्याः खार्यामिति च भवति / यदा तु कर्मणि तदा अधिका खारी द्रोणेनेति भवति / 2037 अनोः कमितरि // 7 / 1 / 188 // अनुशब्दात् क; प्रत्ययः स्यात् समुदायेन चेत् कमिता गम्यते। अनुकामयतेऽनुकः। 2038 अभेरीश्च वा // 71 / 189 // अभिशब्दात् कः प्रत्ययः स्यात् ईकारश्चास्य वा भवति समुदायेन चेत् कमिता गम्यते / अभिकामयते अभिकः, अभीकः। 2039 सोऽस्य मुख्यः // 7 // 1 / 190 // स इति प्रथमान्तादस्येति षष्ठयर्थे का प्रत्ययः स्यात् यत्तत्प्रथमान्तं स चेन्मुख्यः प्रधानं ग्रामणीभवति / देवदत्तो
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy