SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 409 ऽनेनेति ग्रहणं रूपादि / ग्रन्थस्य ग्रहणाद्-ग्रहणे वर्तमानात् पूरणप्रत्ययान्तात् नाम्नः कः प्रत्ययः स्यात् स्वार्थे-प्रकृत्यर्थ एव अर्थान्तरानिर्देशात् तत्संनियोगे च पूरणप्रत्ययस्य वा लुक् / वेति लुकैव संबध्यते न प्रत्ययेन / पक्षे प्रत्ययानुत्पत्तेर्महाविभाषयैव सिद्धत्वात् द्वितीयमेव द्विकं द्वितीयकं ग्रन्थग्रहणमस्य / एवं त्रिकं तृतीयकं चतुष्कं चतुर्थकं पञ्चकं पञ्चमकं व्याकरणस्य ग्रहणम् / ग्रन्थस्येत्येव / द्वितीयं ग्रहणं धान्यस्य / 2027 सस्याद् गुणात् परिजाते // 7 / 1 / 178 // सस्यशब्दाद् गुणवाचिनस्तेनेति तृतीयान्तात् परिजातेऽर्थे कः प्रत्ययः स्यात् / परिः सर्वतो भावे / जनिः संपत्तौ / सस्येन परिजातः सस्यकः शालिः यः सर्वतो गुणैः संपन्नो न यस्य किंचिदपि वैगुण्यमस्ति स एवमुच्यते / एवं सस्यको देशः। सस्यको वत्सः। सस्यकं सीधु / सस्यको मणिः। रूढिशद्वश्चायं मणिविषये / सस्यकः खड्गः सर्वतः सारेण संबद्धः / गुणादिति किम् / धान्यवचनान्मा भूत् / परिजातं क्षेत्रम् / 2028 धनहिरण्ये कामे // 7 / 1 / 179 // धन हिरण्य इत्येताभ्यां निर्देशादेव सप्तम्यन्ताभ्यां कामेऽभिलाषेऽर्थे कः प्रत्ययः स्थात् / धने कामः धनकः चैत्रस्य / हिरण्यका मैत्रस्य / 2029 स्वाङ्गेषु सक्ते // 7 / 1 / 180 // स्वाङ्गवाचिभ्यो नामभ्यो निर्देशादेव सप्तम्यन्तेभ्यः सक्ते तत्परेऽर्थे कः प्रत्ययः स्यात् / केशेषु सक्तः केशकः। नखकः। दन्तकः। केशादिरचनायां प्रसक्त उच्यते / बहुवचनात् स्वाङ्गसमुदायादपि भवति / दन्तौष्ठकः। केशनखकः। 2030 उदरे विकणायूने / / 7 / 1 / 181 // उदरशब्दानिर्देशादेव सप्तम्यन्ताव सक्तेऽर्थे इकण् प्रत्ययः स्यात् / सक्तश्चेदानो भवति / उदरे सक्तः औदरिकः आयूनः। अविजिगीषुर्यो बुभुक्षयात्यन्तं पीड्यते / औदरिकी। आयून इति किम् / उदरकोऽन्यः / तुशद्धः पूर्वयोगशेषतामस्य कथयति तेन काधिकारो न बाध्यते / 2031 अंशं हारिणि / / 7 / 1 / 182 // अंशशब्दानिर्देशादेव द्वितीयान्ताधारिण्यर्थे कः प्रत्ययः स्यात् / अंशं हारी अंशको दायादः। हारीत्यावश्यके णिन् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy