________________ प्रकरणम्] सिद्धहैमबृहत्प्रक्रिया. सादेः-कृतं पूर्वमनेन कृतपूर्वी कटम् / भुक्तं पूर्वमनेन भुक्तपूर्वी ओदनम् / पीतं पूर्वमनेन पीतपूर्वी पयः। कृतपूर्वादिसमासात् प्रत्ययः क्तान्तं येनैव समानाधिकरणं तस्यैव कर्मतां वक्ति / न च वृत्तौ क्तान्तं कटादिना समानाधिकरणमिति कटादिगतं कर्मानुक्तमिति अतो द्वितीया। 2017 इष्टादेः // 7 / 1 / 168 इष्ट इत्येवमादिभ्यः सामर्थ्यात् प्रथमान्तेभ्योऽनेनेति तृतीयार्थे कर्तरि इन् प्रत्ययः स्यात् / इष्टमनेन इष्टी यज्ञे / पूर्ती श्राद्धे / 'व्याप्ये क्तेनः' इति कर्मणि सप्तमी / 2018 श्राद्धमद्य भुक्तमिकेनौ // 71 / 169 // श्राद्धशब्दात् प्रथमान्तादद्य भुक्तमित्येवमुपाधिकादनेनेति तृतीयार्थे कर्तरि इक इन् इत्येतौ प्रत्ययौ स्याताम् / श्राद्धशब्दः कर्मनामधेयं तत्साधने द्रव्ये वर्तित्वा प्रत्ययमुत्पादयति / श्राद्धमनेनाद्य भुक्तं श्राद्धिकः श्राद्धी / अद्यग्रहणादद्य भुक्ते श्राद्धे श्वः श्राद्धिकः श्राद्धी इति न भवति / भुक्तमिति किम् / श्राद्धमनेनाद्य कृतम् / 2019 अनुपद्यन्वेष्टा // 7 / 1 / 170 // अनुपदीति इन्नन्तं निपात्यते अन्वेष्टा चेत् प्रत्ययार्थो भवति / अनुपदमन्वेष्टा अनुपदी उष्ट्राणां गवां वा। 2020 दाण्डाजिनिकायःशूलिकपार्श्वकम् // 7 / 1 / 171 // दाण्डाजिनिकायःशूलिकशब्दौ इकण्प्रत्ययान्तौ पार्श्वकशब्दश्च कात्ययान्तो निपात्यते अन्वेष्टा चेत् प्रत्ययार्थः / दण्डाजिनं दम्भः तेन अन्वेष्टा दाण्डाजिनिकः / यो मिथ्यावती परप्रसादार्थ दण्डाजिनमुपादायार्थानन्विच्छति स दाम्भिक उच्यते / निपातनं रूढ्यर्थम् , तेन शैवभागवतादौ न भवति। आयःशूलिक इति / तीक्ष्ण उपायोऽयःशूलसाम्यादयःशूलं तेनान्वेष्टा आयःशूलिकः। यो मृदनोपायेनान्वेष्ट. व्यानर्थान् तीक्ष्णोपायेनान्विच्छति रामसिकः स एवमुच्यते / केचिद्दण्डाजिनायःशूलाभ्यामिकमेवाहुः तन्मते दण्डाजिनिकः दण्डाजिनिका / अयःशूलिकः अयःशूलिका। पार्श्वक इति पार्थमनृजुरुपायः लञ्चादिः तेनान्वेष्टा पार्श्वकः। ऋजुनोपायेनान्वेष्टव्यानर्थाननृजुनोपायेन योऽन्विच्छति स पार्श्वक उच्यते / यस्तु राज्ञः पार्थेनार्थानन्विच्छति स राजपुरुषस्तत्र न भवति / ___ 2021 क्षेत्रेऽन्यस्मिन्नाश्य इयः // 7 / 1 / 172 // क्षेत्रशदानिर्देशादेव