________________ सिद्धहैमबृहत्मक्रिया. [तद्धित बहीनां पूरणी बहुतिथी। गणतिथः गणतिथी / पूगतिथः / पूगतिथी / संघतिथः / संघतिथी / संख्याविशेषणं संभवापेक्षम् / पित्करणं पुंवद्भावार्थम् / टकारो ङन्धर्थः / 2010 अतोरिथट् // 71 / 161 // अत्वन्तात् संख्याशब्दात् संख्यापूरणे इथट् प्रत्ययः स्यात् स च पित् / डटोऽपवादः / इयतां पूरणः इयतिथः। इयतीनां पूरणी इयतिथी / कियतिथः। कियतिथी / यावतिथः। यावतिथी। तावतिथः / तावतिथी / एतावतिथः। एतावतिथी। 2011 षट्कतिकतिपयात थट् // 7 / 1 / 162 // षट् कति कतिपय इत्येतेभ्यः संख्यापूरणे थट् प्रत्ययः स्यात् स च पित् / षण्णां पूरणः षष्ठः। षष्ठी। कतीनां पूरण; कतिथः। कतिथी। कतिपयथः। कतिपयानां स्त्रीणां पूरणी कतिपयथी / 'षष्ठी वानादरे' 'चतुर्थी' इति च निर्देशात् थटि 'नाम सिदयव्यंजने' इति पदत्वं न भवति / 2012 चतुरः // 7 / 1 / 163 // चतुर् इत्येतस्मात् संख्यापूरणे थट् प्रत्ययः स्यात् / चतुर्णा पूरणः चतुर्थः / चतसृणां पूरणी चतुर्थी / योगविभाग उत्तरार्थः / 2013 येयौ चलुक् च // 7 / 1 / 164 // चतुर् इत्येतस्मात् संख्यापूरणे य ईय इत्येतो प्रत्ययौ स्याताम् च इत्येतस्य लुक् च भवति / चतुणी पूरणः तुयेंः। तुरीयः। तुर्या / तुरीया / एवं च त्रैरूप्यं भवति / 2014 देस्तायः // 71 / 165 // द्विशब्दात् संख्यापूरणे तीयः प्रत्ययः स्यात् / द्वयोः पूरणः द्वितीयः / द्वितीया / 2015 त्रेस्तृ च // 7 / 1 / 166 // त्रि इत्येतस्मात् संख्यापूरणे तीयः प्रत्ययः स्यात् तत्संनियोगे च त्रेस्त इत्यादेशः। त्रयाणांपूरणः तृतीयः। तिसृणां पूरणी तृतीया। 2016 पूर्वमनेन सादेश्चन् // 7 / 1 / 167 // पूर्वमिति क्रियाविशेषणानिदेशादेव केवलात् सादेः सपूर्वाचानेनेति तृतीयार्थे कर्तरि इन् प्रत्ययः स्यात् / केवलात्-पूर्वमनेन पूर्वी पूर्विणौ पूर्विणः। अनेनेति कर्तृपदम् , कर्ता च क्रियामन्तरेण न भवतीति कृतं भुक्तं पीतं चेति कांचित् क्रियामपेक्षते / विशेषावगमस्तु अर्थात् प्रकरणात् शब्दान्तरसंनिधेर्वा भवति / पूर्वी कटम् / पूर्वी ओदनम् / पूर्वी पयः।