________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. . 405 स्यात् / अत्र सामर्थ्यात् षष्ठयन्तात् प्रत्ययो विज्ञायते / अतएव तदिति निवृत्तम् / एकादशानां पूरणः एकादशः। एकादशसंख्यापूरण इत्यर्थः। एकादशी। एवं द्वादशः / त्रयोदशः / चतुर्दशः / संख्याग्रहणं किम् / एकादशानामुष्टिकाणां पूरणो घटः / एकस्य तु पूरणाभावान्न ग्रहणम् / यादेरित्यनुटत्तेर्वा / 2005 विंशत्यादेवी तमट् // 7 / 1 / 156 // विंशत्येवमादिकायाः संख्यायाः संख्यापूरणे तमट् प्रत्ययो वा स्यात् / पक्षे डट्। विंशतेः पूरणः विंशतितमः। विंशः। विंशतितमी विंशी स्त्री। एकविंशतितमः / एकविंशः। द्वाविंशतितमः। द्वाविंशः। एकानत्रिंशत्तमः एकान्नत्रिंशः। त्रिंशत्तमः। त्रिंशः / चत्वारिंशत्तमः / चत्वारिंशः। द्वाचत्वारिंशत्तमः। द्वाचत्वारिंशः / पञ्चाशत्तमः। पञ्चाशः। अष्टपञ्चाशत्तमः / অস্বাহা।। __2006 शतादिमासार्धमाससंवत्सरात् // 71 / 157 // शतादिभ्यः संख्याशब्देभ्यो मास अर्धमास संवत्सर इत्येतेभ्यश्च संख्यापूरणे तमट् प्रत्ययः स्यात् / शतस्य पूरणः शततमः। शततमी / एकशततमः / सहस्रतमः। लक्षतमः। मासस्य पूरणो मासतमो दिवसः। अधमासतमः। संवत्सरतमः / षष्ठयादेरित्येव सिद्धे शतादिग्रहणं संख्याद्यर्थम् / - 2007 षष्ट्यदेरसंख्यादेः // 7 / 1 / 158 // संख्या आदिरवयवो यस्य स संख्यादिः / ततोऽन्यस्मात् षष्टयादेः षष्टिप्रभृतिभ्यः संख्याशब्देभ्यः संख्यापूरणे तमट् प्रत्ययः स्यात् / विकल्पापवादः। षष्टेः पूरणः षष्टितमः / सप्ततितमः / अशीतितमः / नवतितमः / असंख्यादेरिति किम् / एकषष्टितमः। एकषष्टः। एकसप्ततितमः। एकसप्ततः। विंशत्यादेरिति विकल्प एव / . 2008 नो मट् // 7 / 1 / 159 // असंख्यादेः संख्याशद्धान्नकारान्तात् संख्यापूरणे मट् प्रत्ययः स्यात् / डटोऽपवादः। पश्चानां पूरणः पञ्चमः / पञ्चमी / सप्तमः। अष्टमः। नवमः। दशमः। न इति किम् विंशः। असंख्यादेरित्येव / एकादशः। द्वादशः। 2009 पित्तिथट् बहुगणपूगसंघात् // 7 / 1 / 160 // बहु गण पूग संघ इत्येतेभ्यः संख्यापूरणे तिथट् प्रत्यय: स्यात् स च पित् / बहूनां पूरणः बहुतिथः।