________________ 404 सिद्धहैमबृहत्प्रक्रिया. [तद्धित यवानां मूल्यभूतानाम् / यवानां त्रयाणां भागानां द्वौ भागौ उदश्वितः क्रेयस्य / द्वौ गुणाविति क्रय मूल्यं चैकगुणं कृता तदपेक्षया मूल्यक्रेययो_िस्तावत्तोच्यते / मूल्यक्रेय इति किम् / द्विगुणं क्षीरं तैलस्य पाक्यस्य / 2003 अधिकं तत्संख्यमस्मिन् शतसहस्र शतिशद्दशान्ताया डः / / 7 / 1 / 154 // संख्याया इति तदिति च वर्तते / तदिति प्रथमान्तात् शतिशद्दशन् इत्येवमन्तात् संख्याशब्दादस्मिनिति सप्तम्यथै शते सहस्रे च डः प्रत्ययः स्यात् यत्तत् प्रथमान्तं तचेदधिकं तत्संख्यं च भवति / सा शतसहस्रलक्षणा संख्या यस्य योजनादेस्तत्तत्संख्यं शतं सहस्रमिति च यत्संख्यायते तदेव यद्यधिकमपि भवतीत्यर्थः। योजनानां विंशतिर्योजनानि वा विंशतिरधिकास्मिन् योजनशते शते वा योजनेषु विशं योजनशतं विशं शतं योजनानि / एवं विशं योजनसहनं विशं सहस्रं योजनानि / विशं कार्षापणशतम् विशं शतं कार्षापणानि / विशं कार्षापणसहस्रम् विशं सहस्रं कार्षापणानि / संख्यासमुदायोऽपि संख्यैव संख्यायतेऽनयेति कृत्वेत्यत्रापि भवति / एकविंशम् द्वाविंशं शतम् / शत्-त्रिशं शतं त्रिंशं सहस्रम् / एकत्रिंशं चत्वारिंशं पञ्चाशम् / दशन्-एकादशं शतम् एकादशं सहस्रम् / द्वादशं त्रयोदशं शतं सहस्रं वा / योजनादीनामिव शतानामपि सहस्रे भवति / विंशतिः शतान्यधिकान्यस्मिन् सहस्राणां शते विशं शतसहस्रम् / त्रिंशम् / एकादशम्। राजदन्तादिषु पाठाच्छतशद्धस्य पूर्वनिपातः। अधिकमिति किम् / विंशतिः त्रिंशत् एकादश वा ऊना अस्मिन् शते / तत्संख्यमिति किम् / विंशतिदण्डा अधिका अस्मिन् योजनशते, त्रिंशत्पणा अधिका अस्मिन् कार्षापणसहस्रे, एकादश भाषा अधिका अस्मिन् कार्षापणशते / अस्मिन्निति किम / विशतिरधिकास्माच्छतात् / शतसहस्र इति किम् / एकादशाधिका अस्यां त्रिंशति / शतिशदशान्ताया इति किम् / पडधिका अस्मिन् शते। दशाधिका अस्मिन् सहस्रे / व्यपदेशिवद्भावादशान्तत्वे शनित्येव क्रियेत न तु दशन्निति / संख्याया इत्येव / गोविंशतिः अधिका अस्मिन् गोशते / न गोविंशतिशब्द एकविंशत्यादिवत् संख्याशब्दः। 2004 संख्यापूरणे डट् // 7 / 1 / 115 // संख्या पूर्यते येन तत्संख्यापूरणम् / संख्याया इति वर्तते / संख्याशब्दात् संख्यापूरणेऽभिधेये डट् प्रत्ययः