________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 403 संख्यावाचिनो नाम्नस्तदिति प्रथमान्तात् अस्येति षष्ठयर्थे अवयविनि तयट् प्रत्ययः स्यात् / चत्वारोऽवयवा अस्याः चतुष्टयी शद्धानां प्रवृत्तिः। चतुष्टयी रज्जुः। पञ्चतयो यमः। सप्ततयी नयप्रवृत्तिः। दशतयो धर्मः। द्वादशतयः सिद्धान्तः। 2001 द्वित्रिभ्यामयट् वा // 7 / 1 / 152 // द्वि त्रि इत्येताभ्यामवयववृत्तिभ्यां प्रथमान्ताभ्यामस्येति षष्ठयर्थे अवयविनि अयट् प्रत्ययो वा स्यात् / द्वाववयवावस्य द्वयं द्वितयं तपः। त्रयं त्रितयं जगत् / त्रयः त्रितयो मोक्षमार्गः। टकारो ड्यर्थः / द्वयी द्वितयी। त्रयी त्रितयी रज्जुः। अवयवा अवयविनि संबद्धा इति सामर्थ्यादवयवी प्रत्ययार्थ इति विज्ञायते / त्रयाणि पानानि यथा तथा पिबेदित्यत्र तु देशकालादिभेदेन समुदायाभिधानात् बहुवचनम् / द्वये पदार्था जीवा अजीवाश्चेत्यत्र तु जीवाजीवतया द्वैराश्योपादानात् बहनामपि द्वाववयवौ भवतः। कथमुभयो मणिः, उभये देवमनुष्याः, उभयी दृष्टिरिति ? उभयशब्दः सर्वादिषु उभयद् इति पठ्यमानः शद्धान्तरमेव / तथा चास्य 'नेमा' इत्यादिना जस इकारविकल्पो न / ____2002 यादेर्गुणान्मूल्यक्रेये मयट् // 7 / 1 / 153 // संख्याया इति वर्तते / यादेः संख्याशद्वाद् गुणवृत्तेस्तदिति प्रथमान्तादस्येति षष्ठ्यर्थे मयट प्रत्ययः स्यात् / स चेत् संख्याशद्धो मूल्ये क्रेये वा वर्तते / यवानां द्वौ गुणौ मूल्यमस्योदश्वितः क्रेयस्य द्विमयमुदश्विद्यवानाम् / एवं त्रिमयम् / चतुर्मयम् / उदश्वितो द्वौ गुणौ क्रेयावेषां यवानां द्विमया यवा उदश्वितः / एवं त्रिमयाः / चतुर्मयाः / न्यादिपदस्य सापेक्षस्यापि नित्यसापेक्षत्वेन गमकखाद् वृत्तिः। यादेरिति किम् / यवानामेको गुणो मूल्यमस्योदश्वित उदश्वित एको गुणः क्रेय एषां यवानाम् / गुणादिति किम् / द्वौ बीहियवौ मूल्यमस्योदश्वितः / द्वे घृतोदश्विती क्रेये एषां यवानाम् / मूल्यक्रय इति किम् / क्षीरस्य द्वौ गुणौ तैलस्य पाक्यस्य / अपरः प्रकारः। मूल्यक्रेय इति प्रत्ययार्थविशेषणम् / यादेः संख्याशवाद् गुणवृत्तेस्तदिति प्रथमान्तादस्येति षष्ठ्यर्थे मयट् प्रत्ययः स्यात् स चेत् षष्ठयों मूल्यं क्रेयं वा भवति / द्वौ गुणावेषां मूल्यभूतानां यवानामुदश्वितः द्विमया यवा उदश्वितो मूल्यम् / एवं त्रिमयाः। चतुर्मयाः। द्वौ गुणावस्योदश्वितः क्रेयभूतस्य द्विमयमुदश्विद्यवानां क्रेयम् / त्रिमयम् / चतुर्मयम् / यादेरिति किम् / एकगुणा यवा उदश्वितो मूल्यम् एकगुणमुदश्विद्यवानां क्रेयम् / गुणादिति किम् / उदश्चितस्त्रयाणां भागानां द्वौ भागौ