________________ 402 सिद्धहैमबृहत्पक्रिया. [ तद्धित षष्ठयर्थे डिन् प्रत्ययः स्यात् / पञ्चदशाहोरात्राः परिमाणमस्य पञ्चदशी अर्धमासः। पञ्चदशिनौ पञ्चदशिनः। एवं त्रिंशी त्रिशिनौ त्रिंशिनो मासाः। त्रयस्त्रिंशिनो देवविशेषाः। विशिनो भवनेन्द्राः। ___ 1997 इदं किमोऽतुरिय किय् चास्य // 7 // 1 // 148 // तदस्य मानादिति वर्तते / तदिति प्रथमान्तादिदंशद्धात किंशद्भाच मानवृत्तेरस्येति षष्ठयर्थे मेयेऽतुः प्रत्ययस्तत्संनियोगे च इदंकिंशद्वयोरिय किय् इत्येतावादेशौ स्याताम् / चतुर्विधं मानम् , तत्र प्रामाणात्-इदं मानमस्य इयान् कियान् पटः। परिमाणात्-इयत् कियद्धान्यम् / उन्मानात्-इयत् कियत्सुवर्णम् / संख्यायाः-इयन्तः कियन्तो राणिनः / इयती / कियती / उदित्करणं दीर्घखाद्यर्थम् / 1998 यत्तदेतदो डावादिः // 7 / 1 / 149 // यत्तदेतदित्येतेभ्यः प्रथमा. न्तेभ्यो मानवृत्तिभ्योऽस्येति षष्ठयर्थे मेयेऽतुः प्रत्ययः स्यात् स च डावादिः / यत्तदेतद्वा प्रमाणमस्य यावान् तावान् एतावान् पटः। यावत् तावत् एतावत् धान्यम् / यावत् तावत् एतावत् सुवर्णम् / यावन्ति तावन्ति एतावन्ति अधिकरणानि / यावती तावती एतावती। ननु मात्रडादयोऽपि दृश्यन्ते इदं प्रमाणमस्य इदंमात्रं किमात्रं यन्मात्रं तन्मात्रं एतन्मात्रं यहघ्नं यवयसमित्यादि / सत्यम् / स्वविषये मानविशेषे प्रमाणे मात्रडादयो भवन्त्येव मानसामान्येऽतुरेवेति विभागः। 1999 यत्ततत्किमः संख्याया डतिर्वा // 7 / 1 / 150 // संख्यारूपं यन्मानं तत्तिभ्यो यत्तत्किम् इत्येतेभ्यः प्रथमान्तेभ्योऽस्येति षष्ठयर्थे संख्येये मेये डतिः प्रत्ययो वा स्यात् / पक्षे यथाविहितोऽतुश्च / या संख्या मानमेषां यति यावन्तः / सा संख्या मानमेषां तति तावन्तः। का संख्या मानमेषां कति कियन्तः। १एतौ चातुडतिप्रत्ययौ स्वभावाद बहुवचनविषयावेव भवतः। संख्याया इति किम् / कियान् यावान् तावान पटः। मानादिति संख्याया विशेषणं किम् / क्षेपे मा भूत् / का संख्या येषां दशानाम् / 2000 अवयवात्तयट् // 7 / 1 / 151 // तदस्येति संख्याया इति च वर्तते / मानादिति निवृत्तम् / अवयवादिति विशेषणान्तरोपादानात् / अवयवे वर्तमानात् 1 अनेन संख्यावृत्तिभ्यो विहितौ मानवृत्तेस्तु 'इद किमोऽतु'रित्यादिना एकत्वादावपि /