________________ प्रकरणम् सिद्धहैमबृहत्मक्रिया. तस्यासंशये लुब्विकल्पं चेच्छन्ति / प्रस्थः प्रस्थमात्रो वा व्रीहिः। हस्तः हस्तमात्र वा काष्ठम् / पलं पलमात्रं वा सुवर्णम् / शतं शतमात्रा वा गावः / 1993 द्विगोः संशये च / / 7 / 1 / 144 // मानादिति वर्तते / प्रमाणादिति निवृत्तम् / पुरुषादेत्यत्र उपचरितप्रमाणात् पुरुषाल्लुपि ङीविधानात् / तदनुवृत्तौ तु तस्य मानेन विशेषणात् प्रसिद्धादेव हस्तादेः लुप् स्यात् / मानान्ताद् द्विगोः संशये चकारादसंशये च प्रस्तुतस्य मात्रडादेः प्रत्ययस्य लुप् भवति / द्वौ शमौ प्रमाणमस्य द्वौ शमौ प्रमाणमस्य स्यादिति वा द्विशमः द्विदिष्टिः द्विवितस्तिः। द्विकाण्डा क्षेत्रभक्तिः। द्विकाण्डी रज्जुः। द्विपुरुषी द्विपुरुषा खाता / द्विहस्तिनी। त्रिहस्तिनी / द्वौ प्रस्थौ मानमस्य स्यात् द्विप्रस्थः / द्विपलम् / द्विशतः / मीयतेऽनेन मानं प्रमाणं परिमाणम् उन्मानं संख्या चेह गृह्यते / ऊर्ध्वमानं किलोन्मानं परिमाणं तु सर्वतः / आयामस्तु प्रमाणं स्यात्संख्या बाह्या तु सर्वतः। अन्ये तु रूढप्रमाणान्तादेव द्विगोरिच्छन्ति तन्मते द्विपस्थमित्यादौ लुब् न भवति / 1994 मात्रट् // 7 / 1 / 145 // मानात् संशये चेति वर्तते / तदिति प्रथमान्तान्मानवाचिनो नाम्नः पष्ठयर्थे मात्रट् प्रत्ययः स्यात् संशये / प्रस्थो मानमस्य स्यात् प्रस्थमात्रं धान्यम् / प्रस्थमात्रा त्रीहयः। कुडवमात्रम् / पलमात्रम् / कर्षमात्रम् / पञ्चमात्राः / शतमात्राः। शतमात्रम् / दिष्टिमात्रम् / मात्रदनद्वयसानि नामान्यपि सन्ति / अनुबन्धासञ्जनार्थ तु प्रत्ययविधानम् / तेन च स्त्रियां विशेषः। वैश्वदेवमात्रा भिक्षा। 1995 शन्शविंशतः // 71 / 146 // शन्नन्ताच्छदन्ताच संख्याशद्वाद्विशतिशद्धाच्च मानवृत्तेस्तदिति प्रथमान्तादस्येति षष्ठयर्थे संशये गम्यमाने मात्रट प्रत्ययः स्यात् / डिनोऽपवादः। दश मानमेषां स्यादिति दशमात्राः / पञ्चदशमात्राः। त्रिंशन्मात्राः / त्रयस्त्रिंशन्मात्राः / विंशतिमात्राः। 1996 डिन् / / 7 / 1 / 147 // संशये इति निवृत्तम् / योगविभागात् / शन्नन्ताच्छदन्ताच्च संख्याशब्दाद् विंशतिशब्दाच मानवृत्तेस्तदिति प्रथमान्तादस्येति 1 विश्वे देवा देवता अस्याण वैश्वदेवो मात्र मात्रा वाऽस्याः।