SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ 400 सिद्धहैमबृहत्पक्रिया [ तद्धित 1988 गर्भादप्राणिनि // 71 / 139 // गर्भशद्वात्तदस्य संजातमित्यर्थे इतः प्रत्ययः स्यात अप्राणिनि-सचेत षष्ठयर्थः प्राणी न भवति। गर्भः संजातोऽस्य गर्भितो ब्रीहिः। अप्राणिनीति किम् / गर्भः संजातोऽस्या दास्या इति वाक्यमेव / 1989 प्रमाणान्मात्रट् // 7 / 1 / 140 // तदस्येति वर्तते / तदिति प्रथमान्तात् प्रमाणवाचिनोऽस्येति षष्ठयर्थे मात्रट प्रत्ययः स्यात् / आयाममानं प्रमाणं, तद्विविधम् ऊर्ध्वमानं तिर्यग्मानं चेति / तत्रोर्ध्वमानात्-जानुनी प्रमाणमस्य जानुमात्रमुदकम् / जानुमात्री खाता। तिर्यग्मानात्-रज्जुमात्री भूमिः / तन्मात्री। . तावन्मात्री। टकारो डन्यर्थः / ____ 1990 हस्तिपुरुषाद्वाण // 7 / 1 / 141 // तदिति प्रथमान्तात् प्रमाणवाचिनो हस्तिशब्दात् पुरुषशब्दाचास्येति षष्ठयर्थेऽण प्रत्ययो वा स्यात् / पक्षे यथाप्राप्तम् / हस्ती प्रमाणमस्य हास्तिनं हस्तिमात्रम् हस्तिदघ्नं हस्तिद्वयसमुदकम् / हास्तिनी हस्तिमात्री हस्तिदनी हस्तिद्वयसी खाता / पौरुषं पुरुषमात्रं पुरुषदघ्नं पुरुषद्वयसमुदकम् / पौरुषी पुरुषमात्री पुरुषदन्नी पुरुषद्वयसी खाता / पौरुषी पुरुषमात्री छाया / 1991 वोर्ध्व दप्नट् दयसट् // 7 // 1 / 142 // ऊर्ध्वं यत्प्रमाणं तद्वाचिनो नाम्नः प्रथमान्तादस्येति षष्ठयथै दन्नट् द्वयसट् इत्येतौ प्रत्ययौ वा स्याताम् / पक्षे मात्रट / ऊरुः प्रमाणमस्य ऊरुदनम् ऊरुद्वयसम् ऊरुमात्रमुदकम् / ऊरुदनी अरुद्वयसी ऊरुमात्री खाता / तद्दन्नी तवयसी तन्मात्री / तावन्नी तावद्वयसी तावन्मात्री / वाग्रहणमण्मात्रटोरबाधनार्थम् / तेन पुरुषदन्नम् पुरुषद्वयसम् पुरुषमात्रम् / पौरुषमिति पुरुषहस्तिनोश्चातुरूप्यं भवति / ऊर्ध्वमिति किम् / रज्जुमात्री भूमिः। 1992 मानादसंशये लुप् // 7 / 1 / 143 // प्रमाणमिति वर्तते / मानवाच्येव साक्षायः प्रमाणशद्धो हस्तवितस्त्यादिः प्रसिद्धो न तु रज्ज्वादिर्यो लक्षणया प्रमाणे वर्तते तस्मात् प्रस्तुतस्य मात्रडादेः प्रत्ययस्यासंशये गम्यमाने लुप् स्यात् / हस्तः प्रमाणमस्य हस्तः। वितस्तिः। दिष्टिः। शमः चतुर्विंशतिरकुलानि / मानादिति किम् / ऊरुमात्रमुदकम् / रज्जुमात्री भूमिः / असंशय इति किम् / शमः प्रमाणमस्य स्यादिति शममात्रम् / दिष्टिमात्रम् / वितस्तिमात्रम् / केचित्तु मानमात्रान्मात्रटं
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy