________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. शब्दौ निपात्येते / उपाधिशब्दाभ्यां यथासंख्यं पर्वतस्यासन्नायामधिरूढायां च भुवि त्यकः प्रत्ययो निपात्यते / उपत्यका / अधित्यका। सिपकादित्वादित्वाभावः। स्वभावतः स्त्रीलिङ्गावेतौ। पुंलिङ्गावपीति कश्चित्। उपत्यको देशः। अधित्यकः पन्थाः। निपातनं रूट्यर्थम् / 1981 अवेः संघातविस्तारे कटपटम् // 7 // 1 // 132 // अविशब्दात संघाते विस्तारे चार्थे यथासंख्यं कट पट इत्येतौ प्रत्ययौ स्याताम् / अवीनां संघातः अविकटः / अवीनां विस्तारः अविपटः। संघाते सामूहिकानां विस्तारे ऐदमर्थिकानां चापवादो योगः। 1982 पशुभ्यः स्थाने गोष्ठः // 71 / 133 // पशुनामभ्यः षष्ठयन्तेभ्यः स्थानेऽर्थे गोष्ठः प्रत्ययः स्यात् / इदमर्थानामपवादः। गवां स्थानं गोगोष्ठम् / महिपीगोष्ठम् / अश्वगोष्ठम् / 1983 द्वित्वे गोयुगः // 7 / 1 / 134 // पशुनामभ्यः षष्ठयन्तेभ्यो द्वित्वेऽर्थे गोयुगः प्रत्ययः स्यात् / इदमर्थानामपवादः। गवोद्वित्वं गोगोयुगम् / अश्वगोयुगम् / उष्ट्रगोयुगम् / 1984 षट्त्वे षड्गवः / / 7 / 1 / 136 // पशुनामभ्यः षष्ठयन्तेभ्यः षट्त्वे गम्यमाने षड्गवः प्रत्ययः स्यात् / उष्ट्राणां षट्त्वमुष्ट्रपड्गवम् / हस्तिषड्गवम् / अश्वषड्गवम् / इदमर्थानामपवादः। 1985 तिलादिभ्यः स्नेहे तैलः // 71 / 166 // तिलादिभ्यः सामर्थ्यात् षष्ठयन्तेभ्यः स्नेहेऽर्थे तैल इति प्रत्ययः स्यात् / विकारप्रत्ययापवादः। तिलानां स्नेहो विकारस्तिलतैलम् / सर्पपतैलम् / इङ्गुदतैलम् / एरण्डतैलम् / 1986 तत्र घटते कर्मणष्ठः // 7 / 1 / 137 // कर्मन्शब्दाद् तत्रेति सप्तम्यन्तात् घटते इत्यर्थे ठः प्रत्ययः स्यात् / कर्मणि घटते कर्मठः। 1987 तदस्य संजातं तारकादिभ्य इतः // 7 / 1 / 138 // तदिति प्रथमान्तेभ्यस्तारकादिभ्योऽस्येति षष्ठयर्थे इतः प्रत्यय: स्यात् यत्तत्पथमान्तं संजातं चेत्तद् भवति / तारकाः संजाता अस्य तारकितं नमः। पुष्पाणि संजातान्यस्य पुष्पितस्तरुः। बहुवचनमाकृतिगणार्थम् /