________________ 398 सिद्धहैमबृहत्मक्रिया. [तद्धित 1974 संप्रोन्नेः संकीर्णप्रकाशाधिकसमीपे // 71 / 126 // सम् प्र उद् नि इत्येतेभ्यो यथासंख्यं संकीर्णादिष्वर्थेषु कटः प्रत्ययः स्यात् / समः संकीर्णे संकटः / प्रात् प्रकाशे प्रकटः / उदोऽधिके उत्कटः / नेः समीपे निकटम् / 1970 अवात्कुटारश्चावनते // 7 // 1 / 126 // अवशब्दादवनतेऽर्थे कुटारश्कारात् कटश्च प्रत्ययः स्यात् / अवकुटारः। अवकटः / - 1976 नासानतितद्वतोष्टीटनाटभ्रटम् // 7 / 1 / 127 // अवशब्दानासानतौ तद्वति च वाच्ये टीट नाट भ्रट इत्येते प्रत्ययाः स्युः। नासानतौ-नासाया नमनम् अवटीटम् अवनाटम् अवभ्रटम् / सा नासानतिर्विद्यते यस्मिन् स तद्वान् नासा पुरुषः / अपकृष्टो वार्थः। तत्र अवटीटा अवनाटा अवभ्रटा नासिका / अवटीटः। अवनाटः / अवभ्रटः पुरुषः / अवटीटम् अवनाटम् अवभ्रटं वा ब्रह्मदेयम् / अपकृष्टमपि हि वस्तु दृष्ट्वा लोको नासिकां नामयति / 1977 नेरिनपिटकाश्चिक्चिचिकश्चास्य // 7 // 1 // 128 // निशब्दानासानतौ तद्वति चाभिधेये इन पिट क इत्येते प्रत्ययाः स्युः तत्संनियोगे चास्य नेर्यथासंख्यं चिक् चि चिक् इत्येते आदेशाः स्युः / चिकिनम् चिपिटम् चिकम् नासिकानमनम् / चिकिना चिपिटा चिक्का नासिका। चिकिन चिपिट; चिकः पुरुषः। बहुवचनं 1 रूढ्यर्थम् / 1978 बिडबिरीसौ नीरन्ध्रे च // 7 / 1 / 129 // निशद्वान्नीरन्ध्रेऽर्थे नासानतितद्वतोश्च बिडबिरीस इत्येतौ प्रत्ययौ स्याताम् / निविडाः निबिरीसाः केशाः। निबिडम् निविरीसम् नासिकानमनम् / निविडा निबिरीसा नासिका / निबिडो निविरीसो मैत्रः। विधानसामर्थ्यात् षत्वं न भवति / - 1979 क्लिन्नालश्चक्षुषि चिल् पिल् चुल् चास्य // 7 // 1 // 130 // लिन्न. शद्धाच्चक्षुषि वाच्ये लः प्रत्ययः स्यात् तत्संनियोगे चास्य चिल् पिल् चुल इत्येते आदेशाः। चिल्लम्। पिल्लम् / चुल्लम् चक्षुः। तद्योगात् पुरुषोऽपि चिल्लः पिल्लः। चुल्लः। 1980 उपत्यकाधित्यके // 71 / 131 // उपत्यका अधित्यका इत्येतो 1 तेनापकृष्टे ब्रह्मदेयलक्षणे अर्थ चिकिनमित्यादयो न भवन्ति //