SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 397 प्रत्ययान्ताः साधवो भवन्ति तस्य तुल्येऽभिधेये। काकश्च तालश्च काकतालम् / यथा कथंचिद् व्रजतः काकस्य निपतता तालेनातर्कितोपनतश्चित्रीयमाणः संयोगो लक्षणयोच्यते तत्तुल्यं काकतालीयम् / एवं खलतिबिल्वीयम् / अन्धकश्च वर्तिका च अन्धकवर्तिकम् / अत्रान्धकस्य वर्तिकाया उपरि अतर्कितः पादन्यास उच्यते / अन्धकस्य बाहूत्क्षेपे वर्तिकायाः करे निलयनं वा तत्तुल्यमन्धकवतिकीयम् / अजया पादेनावकिरत्यात्मवधाय कृपाणस्य दर्शनमजाकृपाणम् तत्तुल्यमजाकृपाणीयम् / एवंविधचित्रीकरणविषयाः काकतालीयादयः। निपातनं रूट्यर्थम् / बहुवचनादन्येऽपि / अर्धजरतीयम् / घुणाक्षरीयमित्यादि / 1967 शर्करादेरण // 7 / 1 / 118 // शर्करादिभ्यस्तस्य तुल्येऽण् प्रत्ययः स्यात् / शर्करायास्तुल्यं शार्करं दधि मधुरवात् / शार्करी मृत्तिका कठिनत्वात् / 1968 अः सपत्न्याः / 7 / 1 / 119 // सपत्नीशब्दात् तस्य तुल्ये अरे प्रत्ययः स्यात् / सपत्न्यास्तुल्यः सपत्नः। 1969 एकशालाया इकः // 71 / 120 // एकशालाशब्दात् तस्य तुल्ये . इकः प्रत्ययः स्यात् / एकशालायास्तुल्यमेकशालिकम् / 1970 गोण्यादेश्चैकण् // 7 / 1 / 121 // गोण्यादिभ्य एकशालाशब्दाच तस्य तुल्ये इकण प्रत्ययः स्यात् / गोण्यास्तुल्यं गौणिकम् / अङ्गुलेरगुल्या वा . आगुलिकम् / एकशालाया ऐकशालिकम् / __1971 कर्कलोहिताट टीकण् च // 11 / 122 // कर्कलोहितशब्दाभ्यां तस्य तुल्ये टीकण प्रत्ययः स्याचादिकण् / शुक्लोऽश्वः कर्कः। तस्य तुल्यः कार्कीकः। कार्किकः / लौहितीकः। लौहितिकः / स्फटिकादिः अलोहितवर्णोऽप्युपाश्रयवशाधस्तथावभासते स एवमुच्यते / ककारो यर्थः / कार्कीकी। लौहितीकी। 1972 वेर्विस्तृते शालशङ्कटौ // 71 / 123 // विशब्दाद् विस्तृतेऽर्थे शाल शङ्कट इत्येतो प्रत्ययौ स्याताम् / विशालः। विशङ्कटः। विस्तृत इत्यर्थः / विनानानेत्यव्यये पृथग्भावे वर्तेते इति विनञ्भ्यां नानाजो प्रत्ययौ न वक्तव्यौ। . 1973 कटः // 11 / 124 // विशब्दाद् विस्तृतेऽर्थे कटः प्रत्यय: स्यात् / विकटः।
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy