________________ सिद्धहैमबृहत्प्रक्रिया. [तद्धित 1960 देवपथादिभ्यः // 7 / 1 / 111 // देवपथ इत्येवमादिभ्यस्तुल्ये संज्ञाप्रतिकृत्योः कः प्रत्ययो न स्यात् / देवपथस्य तुल्यो देवपथः / एवं हंसपथः / बहुवचनमाकृतिगणार्थम् / पूर्वयोगावस्यैव प्रपञ्चः। 1961 वस्तेरेयञ् // 71 / 112 // तस्य तुल्य इति वर्तते न संज्ञापतिकत्योरिति / वस्तिशब्दात् पष्ठयन्तात् तुल्येऽर्थे एयञ् प्रत्ययः स्यात् / वस्तेस्तुल्यं वास्तेयम् / वास्तेयी प्रणालिका / 1962 शिलाया एयच // 7 / 1 / 113 // शिलाशब्दात् षष्ठयन्तात् एयच् प्रत्ययः स्यात् चकारादेयञ् च। शिलायास्तुल्यं शिलेयं शैलेयं दधि। शिलेयी शैलेयी इष्टका / चकारः ' अणबेयेकण' इति एयस्य सामान्यग्रहणाविघातार्थः / अन्यथा ह्यस्यैव स्यात् / अन्ये तु द्रव्यशद्धवदेयजन्तं स्त्रियां नास्तीत्याहुः / 1963 शाखादेर्यः॥७।१।११४॥ शाखा इत्येवमादिभ्यस्तस्य तुल्ये यः प्रत्ययः स्यात् / पुरुषस्कन्धस्य वृक्षस्कन्धस्य वा तिर्यक् प्रसृतमहं शाखेत्युच्यते / तद्यथा शाखा पार्थायता तथा कुलस्य यः पार्थायतोऽङ्गभूतः स शाखायास्तुल्यः शाख्यः। मुख्यः। जघन्यः। 1964 द्रोभव्ये // 7 / 1 / 115 // द्रुशब्दात् तस्य तुल्ये भव्येऽभिधेये यः प्रत्ययः स्यात् / विशिष्टेष्टपरिणामेन भवतीति भव्यम् अभिप्रेतानामर्थानां पात्रम् / द्रुतुल्यो द्रव्यमयं माणवकः। द्रव्यं कार्षापणम् / यथा द्रु अग्रन्थि अजिमं दारु उपकल्प्यमानविशिष्टेष्टरूपं भवति तथा माणवकोऽपि विनीयमानो विद्यालक्ष्म्यादिभाजनं भवतीति द्रव्यमुच्यते / कार्षापणमपि विनियुज्यमानं विशिष्टेष्टमाल्याद्यपभोगफलं भवति इति द्रव्यमुच्यते / द्रुरिव द्रव्यं राजपुत्रः। यथा द्रुमः पुष्पफलादिभिरर्थिनः कृतार्थयति एवमन्योऽपि यः सोऽपि द्रव्यमुच्यते / भव्य इति किम् / द्रुतुल्योऽयं न चेतयते / 1965 कुशाग्रादीयः // 71 / 116 // कुशाग्रशब्दात् तस्य तुल्ये ईयः प्रत्ययः स्यात् / कुशाग्रस्य तुल्यं कुशाग्रीयं शस्त्रम् तदाकारखात् / कुशाग्रीया बुद्धिः तीक्ष्णखात् / 1966 काकतालीयादयः // 7 // 1 / 117 // काकतालीयादयः शब्दा ईय