________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. चाधीनशब्दः / 'अस्मास्वधीनं किमु निःस्पृहाणाम्' इति / 'वाक्यं हि वक्तर्यधीनं भवति' इति / तदेतत् प्रयोक्तर्यधीनं भवती 'ति / 1966 अदिक् स्त्रियां वाचः // 7 / 1 / 107 // अश्चत्यन्तानाम्न ईनः प्रत्ययो वा स्यात् स्वार्थे न चेत् स दिशि स्त्रियां वर्तते / प्राचीनम् / प्राक् / प्रतीचीनं प्रत्यक् / उदीचीनम् उदक् / अवाचीनम् अवाक् / समीचीनः सम्यङ् / अदिस्त्रियामिति किम् / प्राची उदीची दिक् / दिग्ग्रहणं किम्। प्राचीना शाखा / स्त्रीग्रहणं किम् / प्राचीनं प्राक् रमणीयम् / दिश्यपि लुबन्तं स्वभावानपुंसकम् / 'वाद्यात्' इति विकल्पे लब्धे वाग्रहणं पूर्वत्र नित्यार्थम् / ..1957 तस्य तुल्ये कः संज्ञाप्रतिकृत्योः // 71 / 108 // तस्येति पष्ठयन्तात्तुल्ये सदृशेऽर्थे कः प्रत्ययः स्यात् संज्ञायां प्रतिकृतौ च विषये / प्रतिकृतिः काष्ठादिमयं प्रतिच्छन्दकम् / अश्वस्य तुल्यः अश्वकः। उष्ट्रकः / गर्दभकः / अश्वादिसदृशस्य संज्ञा एताः। प्रतिकृति-अश्वकं रूपम् / अश्विका प्रतिमा / अश्वकानि रूपाणि / तुल्य इति किम् / इन्द्रदेवः। एवंनामा कश्चित् / नात्र सादृश्यम् / संज्ञाप्रतिकृत्योरिति किम् / गोस्तुल्यो गवयः / संज्ञाग्रहणमप्रतिकृत्यर्थम् / एकेवाहुः। तुल्यमात्रे प्रत्ययः। शिव इव शिवकः। 1958 न नृपूजार्थध्वजचित्रे // 7 // 1 / 109 // नरि मनुष्ये पूजार्थे ध्वजे चित्रे च चित्रकर्मणि अभिधेये कः प्रत्ययो न स्यात् / तत्र सोऽयमित्येवाभिसंबंधः। संज्ञाप्रतिकृत्योरिति यथासंभवं प्राप्त प्रतिषेधोऽयम् / नृ-चश्चा तृणमयः पुरुषो यः क्षेत्ररक्षणाय क्रियते / चश्चातुल्यः पुरुषश्चश्चा। एवं वर्धिका / खरकुटी। पूजार्थ-अर्हन्, शिवः, स्कन्दः। पूजनार्थाः प्रतिकृतथ उच्यन्ते / ध्वज-गरुडः सिंहः तालो ध्वज; / चित्र-दुर्योधनः भीमसेनः / 1959 अपण्ये जीवने // 7 / 1 / 110 // जीवन्त्यनेनेति जीवनम् / पण्यं विक्रेतव्यम् / पण्यवर्जितं यज्जीवनं तस्मिन् कः प्रत्ययो न स्यात् / वासुदेवसदृशो वासुदेवः / एवं शिवः स्कन्दः विष्णुः / देवलकानां जीविकार्थाः प्रतिकृतय उच्यन्ते / अपण्य इति किम् / हस्तिकान् विक्रीणीते / जीवन इति किम् / क्रीडने निषेधो मा भूत् / हस्तिकः।