________________ सिद्धहैमबृहत्यक्रिया. [तद्धित 1954 समांसमीनाद्यश्वीनाद्यप्रातीनागवीनसाप्तपदीनम् // 7 / 1 / 105 // समांसमीनादयः शद्धा ईनप्रत्ययान्ता निपात्यन्ते / साप्तपदीनस्त्वीनप्रत्ययान्तः / समांसमीनेति समांसमामिति वीप्साद्वितीयान्तात् समुदायाद् गर्भ धारयत्यर्थे ईनः पूर्वपदविभक्तेश्चालुप् / समां समां गर्भ धारयति समांसमीना गौः। समामिति कालाध्वनोाप्ताविति द्वितीया / अन्ये समायां समायां विजायते गर्भ विमुञ्चति समांसमीनेति पूर्वपदस्य यलोपमाहुः / व्याप्त्यभावाचाधिकरणे सप्तमी / अद्यश्वीनेति अद्यश्वःशब्दयोर्थेि समासः विजनिष्यमाणेऽर्थे विजननस्य प्रत्यासत्तौ गम्यमानायामीनः / अद्य श्वो वा विजनिष्यमाणा अद्यश्वीना गौः। एवं नाम प्रत्यासन्नमसवेत्यर्थः। अन्ये तु प्रत्यासत्तौ गम्यमानायां भविष्यत्यर्थे प्रत्ययमाहुः। अद्य श्वो वा भविष्यति अद्यश्वीनो लाभः / अद्यश्वीनं मरणम् / एव मद्यप्रातःशब्दादीनः। अद्यमातीना गौः। अद्यमातीनो लाभः। अद्यपातीनं मरणम् / आगवीनेति आगोप्रतिदानशब्दात् कारिण्यर्थे ईनः प्रतिदानशब्दस्य च लुक् / आगोमतिदानं कारी आगवीनः कर्मकरः / गवा भृतो य आ तस्याः गोः प्रत्यर्पणात कर्म करोति स आगवीनः। रूढिशरोऽयम् / यत्किश्चिदादाया तस्य प्रतिदानाद कर्मकर एवमुच्यत इत्येके / अन्ये तु आ गोः प्राप्तेः कर्मकारी आगवीन इत्याहुः / साप्तपदीनेति सप्तपदशद्वात् तृतीयान्तात् तदवाप्येऽर्थे ईनञ् यत्तदवाप्यं तच्चेत् सख्यं सखा वा भवति / सप्तभिः पदैरवाप्यं साप्तपदीनं सख्यम् / साप्तपदीनः सखा। साप्तपदीनं मित्रम् / 1955 अषडक्षाशितंग्वलंकर्मालंपुरुषादीनः // 7 / 1 / 106 // अषडक्ष आशितंगु अलंकर्मन् अलंपुरुष इत्येतेभ्यः स्वार्थे ईनः प्रत्ययः स्यात् / अविद्यमानानि षडक्षीणि अस्मिन् अषडक्षीणो मंत्रः। सत्तथ्यक्ष्णः स्वाङ्ग इति टान्तादीनः / अषडक्षीणा क्रीडा द्वाभ्यां साध्यत इत्यर्थः / अषडक्षीणः कन्दुकः / येन द्वौ क्रीडतः। अदृश्यानि षडक्षीणि अस्य अषडक्षीणश्चैत्रः / पितुः पितामहस्य पुत्रस्य वा दृष्टोच्यते / इन्द्रियपर्यायो वाक्षशद्धः। अविद्यमानानि षडक्षाण्यस्याषडक्षीणोऽमनस्कः / विचारेण विना प्रवर्तत इत्यर्थः / आशिता गावोऽस्मिनिति आशितंगु / अस्मादेव निपातनात् पूर्वपदस्य मोऽन्तः। तत ईनः। आशितंगवीनमरण्यम् / अलं कर्मणे अलं पुरुषाय 'प्रात्यवपरि' इत्यादिना समासः तत ईनः अलंकर्मीणः अलंपुरुषीणः / राजाधीनमिति त्वधीनेन शौण्डादित्वात् सप्तमीसमासः। अस्ति