SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. . स्मिन्नर्थे ईनः प्रत्ययः स्यात् / सर्वशरः प्रकारकास्न्ये / सर्वप्रकारमन्नं सर्वान्नं तदत्ति सर्वान्नीनो भिक्षुनियमरहितः।। 1948 परोवरीणपरंपरीणपुत्रपौत्रीणम् // 7 / 1 / 99 // परोवरीणादयः शद्धा अनुभवत्यर्थे ईनप्रत्ययान्ता निपात्यन्ते / परावरशद्वाद् द्वितीयान्तादनुभवत्यर्थे ईनः प्रत्ययोऽवरशद्धाकारस्य चोत्वं प्रत्ययसंनियोगे निपात्यते / पराँश्चावराँचानुभवति परोवरीणः। पारोवर्यमित्यत्रातीतक्रमवाचि परोवरमिति शद्वान्तरम् / परंपरीणेति परपरतरशद्वाद द्वितीयान्तादनुभवत्यथै ईनः परंपरभावश्च / परान् परतराँथानुभवति परंपरीणः। मन्त्रिपरंपरामन्त्रं भिनत्तीत्यत्र परम्पराशद्ध आवन्तो बाहुल्यार्थः प्रकृत्यन्तरम् / पुत्रपौत्रीणेति पुत्रपौत्रशद्वाद् द्वितीयान्तादनुभवत्यर्थे ईनः / पुत्राँश्च पौत्राँश्चानुभवति पुत्रपौत्रीणः। 1949 यथाकामानुकामात्यन्तं गामिनि // 71 / 100 // यथाकामानुकाम अत्यन्त इत्येतेभ्यो द्वितीयान्तेभ्यो गामिन्यर्थे ईनः प्रत्ययः स्यात् / यथाकामं गामी यथाकामीनः / अनुकामीनः / यथेच्छं गामीत्यर्थः / 1950 पारावारं व्यस्तव्यत्यस्तं च // 7 / 1 / 101 // पारावारशब्दात्समस्ताद् व्यस्ताद् व्यत्यस्ताच निर्देशादेव द्वितीयान्ताद् गामिन्यर्थे ईनः प्रत्ययः स्यात्। पारावारं गामी पारावारीणः / पारीणः / अवारीणः। पारावारीणः / 1951 अनुग्वलम् // 71 / 102 // अनुगुशब्दाद् द्वितीयान्तादलंगामिनि ईनः प्रत्ययः स्यात् / अलं पर्याप्तमित्यर्थः। गवां पश्चादनुगु तदलं गामी अलंगवीना गोपालकः। 1952 अध्वानं येनौ ॥७।१।१०३॥अलंगामिनीति वर्तते। अध्वन्शद्धाद् द्वितीयान्तादलंगामिनि य ईन इत्येतौ प्रत्ययौ स्याताम् / अध्वानमलंगामी अध्वन्यः / अध्वनीनः। 1953 अभ्यमित्रमीयश्च // 7 / 1 / 104 // अभ्यमित्रशब्दाद् द्वितीयातादलंगामिनि ईयः प्रत्ययः स्यात् चकाराद्येनौ च / अभ्यमित्रमलंगामी अभ्यमित्रीयः। अभ्यमित्र्यः। अभ्यमित्रीणः। अमित्राभिमुखं भृशं गन्तेत्यर्थः।
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy