________________ सिद्धहैमबृहत्मक्रिया. [तद्धित 'यथाथेति प्रतिषेधेऽप्यव्ययीभावः। समं मुखं संमुखं समं मुखमस्यानेनेति वा संमुखं प्रतिबिंबमेव / अत एव निपातनात् समशद्रस्य अन्तलोपः। संमुखं दृश्यतेऽस्मिन्निति संमुखीनः। यथामुखीनः सीताया इति / संमुखीनो हि जयो रन्ध्रप्रहारिणामिति च उपमानात् / 1943 सर्वादेः पथ्यकर्मपत्रपात्रशरावं व्यानोति // 7 / 1 / 94 // सर्वशद्धपूर्वेभ्यः पथिन् अङ्ग कर्मन् पत्र पात्र शराव इत्येतदन्तेभ्यो निर्देशादेव द्वितीयान्तेभ्यो व्यामोतीत्यर्थे ईनः प्रत्ययः स्यात् / सर्वपथं व्याप्नोति सर्वपथीनो रथः / सर्वाङ्गीणस्तापः / सर्वकर्मीणः पुरुषः। सर्वपत्रीणः सारथिः। सर्वपात्रीणः सर्वशरावीण ओदनः। सर्वादेरिति किम् / पन्थानं व्यामोति / 1944 आप्रपदम् // 7 / 1 / 95 // प्रगतं पदं प्रपदम् / पदाग्रमित्यर्थः। अथवा पवृद्ध पदं प्रपदम् पदस्योपरिष्टात् संस्था खलुको गुल्फ इति यावत्। आङ् मर्यादायामभिविधी वा / आ प्रपदात् आमपदम् / 'पर्यपाङ्' इत्यव्ययीभावः। आमपदशद्धान्निर्देशादेव द्वितीयान्ताद् व्यामोतीत्यर्थे ईनः प्रत्ययः स्यात् / आप्रपदं व्यामोति न तदतिवर्तते यः स आपपदीनः पटः। अनेन पटस्य प्रमाणमाख्यायते / 1947 अनुपदं बद्धा // 7 // 1196 // अनुपदशद्धान्निर्देशादेव द्वितीयान्ताद् बद्धा इत्येतस्मिन्नर्थे ईनः प्रत्ययः स्यात् / अनुपदं बद्धा अनुपदीना उपानत् / पदप्रमाणेत्यर्थः। अनुपदमिति दैर्येऽनुरित्यव्ययीभावः। 1946 अयानयं नेयः // 7 / 1 / 97 // अयानयशद्धानिर्देशादेव द्वितीयान्तान्नेय इत्यस्मिन्नर्थे ईनः प्रत्ययः स्यात् / अयानयं नेयोऽयानयीनः शारः। फलकशिरसि स्थित उच्यते / अयः प्रदक्षिणं गमनम् / अनयः प्रसव्यं वामम् / शारिद्यूते हि केचिच्छाराः प्रदक्षिणं गच्छन्ति केचित् प्रसव्यम् / तेषां गतिरयसहितोऽनयोऽयानय इत्युच्यते। यस्मिन् परशारैः पदानामप्रवेशः तदुभयं नेयः अयानयीन इति रूढिः। अथवा अयः शुभं दैवम् / अनयोऽशुभम् / शुभादेवादपवर्ततेऽशुभं दैवं यस्मिन् कर्मणि तदयानयं शान्तिकर्म चतुःशरणप्रतिपत्तिरनाघातघोषणं देवगुरुपूजा तपो दानं ब्रह्मचर्यादिनियमः तद्यो नेयः कारयितव्यः सोऽयानयीन ईश्वर इति / 1947 सर्वान्नमत्ति // 7 / 1 / 98 // सर्वान्नशद्वाद् द्वितीयान्ताद् अत्तीत्य