________________ प्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. 391 भङ्गातिलेभ्यश्च षष्ठयन्तेभ्यो रजस्यर्थे कटः प्रत्ययः स्यात् / अलाबूनां रजः अलाबूकटम् / उमाकटम् / भङ्गाकटम् / तिलकटम् / 1934 अहा गम्येऽश्वादीनञ् // 7 // 1185 // तस्येति षष्ठयन्तादश्वशद्धादेकेनाहा गम्येऽर्थे ईनञ् प्रत्ययः स्यात् / अश्वस्यैकेनाहा गम्य आश्वीनोऽध्वा / अह्नति किम् / अश्वस्य मासेन गम्यः। 1935 कुलाजल्पे // 71 / 86 // षष्ठयन्तात् कुलशब्दाजल्पेऽर्थे ईनञ् प्रत्ययः स्यात् / कुलस्य जल्पः कोलीनम् / 1936 पील्वादेः कुणः पाके // 7 // 187 // पील्वादिभ्यः षष्ठयन्तेभ्यः पाकेऽर्थे कुणः प्रत्ययः स्यात् / पीलूनां पाकः पीलुकुणः। कर्कन्धुकुणः। 1937 कर्णादेर्मूले जाहः // 71 / 88 // कर्णादिभ्यः षष्ठयन्तेभ्यो मूलेऽर्थे जाहः प्रत्ययः स्यात् / कर्णस्य मूलं कर्णजाहम् / अक्षिजाहम् / 1938 पक्षात्तिः // 7 / 1189 // पक्षशद्धात् षष्ठयन्तान्मूलेऽर्थे तिः प्रत्ययः स्यात् / पक्षस्य मूलं पक्षतिः। 1939 हिमादेलुः सहे // 7 / 1 / 90 // हिमशद्धात् षष्ठयन्तात् सहेसहमानेऽर्थे एलुः प्रत्ययः स्यात् / हिमस्य सहः-हिमं सहमान: हिमेलुः। 1940 बलवातादूलः // 71 / 91 / / बल वात इत्येताभ्यां षष्ठयन्ताभ्यां सहेऽर्थे ऊलः प्रत्ययः स्यात् / बलस्य सहः-वलं सहमानः बलूलः। वातूलः। 1941 शीतोष्णतृप्रादालुरसहे / / 7 / 1 / 92 // शीत उष्ण तृप इत्येतेभ्यः षष्ठयन्तेभ्योऽसहेऽसहमानेऽर्थे आलुः प्रत्ययः स्यात् / शीतस्यासहः-शीतमसहमान शीतालुः। उष्णालुः। तृपालुः। तृप्तं दुःखम् / 1942 यथामुखसंमुखादीनस्तद् दृश्यतेऽस्मिन् // 71 / 93 // यथामुख संमुख इत्येताभ्यां तदिति प्रथमान्ताभ्यामस्मिन्निति सप्तम्यर्थे ईनः प्रत्ययः स्यात् यत्तत् प्रथमान्तं दृश्यते चेत् तद्भवति / यथामुख दृश्यतेऽस्मिन् यथामुखीन आदर्शादिः। मुखस्य सदृशोऽर्थो यथामुखं प्रतिबिम्ब उच्यते / अत एव निपातनाद्