________________ सिद्धहैमबृहत्पक्रिया. [तद्धित // अथ क्षेत्राद्यर्थकाः / / 1927 शाकटशाकिनौ क्षेत्रे // 7 / 1178 // तस्येति वर्तते। क्षेत्रं धान्यादीनामुत्पत्त्याधारभूमिः / तस्येति षष्ठयन्ताद् क्षेत्रेऽर्थे शाकटशाकिन इत्येतो प्रत्ययौ स्याताम् / इर्णां क्षेत्रम् इक्षुशाकटम् / ३क्षुशाकिनम्। मूलकशाकटं मूलकशाकिनम् / शाकशाकटम् / शाकशाकिनम् / 1928 धान्येभ्य ईनन् / / 7 / 1 / 79 // धान्यवाचिभ्यः षष्ठ्यन्तेभ्यः क्षेत्रेऽर्थे इनञ् प्रत्ययः स्यात् / कुलत्थानां क्षेत्रं कौलत्थीनम् / मौद्गीनम् / प्रैयङ्गवीणम् / नैवारीणम् / कौद्रवीणम् / 1929 ब्रीहिशालेरेयण // 7 / 1 / 80 // व्रीहि शालि इत्येताभ्यां तस्य क्षेत्रे एयण प्रत्ययः स्यात् / ईननोऽपवादः। व्रीहेःक्षेत्रं त्रैहेयम् / शालेयम् / 1930 यवयवकषष्टिकाद्यः // 7 // 1381 // यवयवकषष्टि इत्येतेभ्यस्तस्य क्षेत्रे यः प्रत्ययः स्यात् / ईनोऽपवादः। यवानां क्षेत्रं यव्यम् / यवक्यम् / षष्टिक्यम् / षष्टिरात्रेण पच्यमाना व्रीहयः षष्टिकाः। अत एव निपातनात सिद्धिः। 1931 वाणुमाषात् // 7 / 1 / 82 / / अणु माष इत्येताभ्यां षष्ठयन्ताभ्यां क्षेत्रेऽर्थे यः प्रत्ययो वा स्यात् / पक्षे ईनञ् / अणूनां क्षेत्रमणव्यम् / आणवीनम् / माष्यम् / माषीणम् / 1932 वोमाभङ्गातिलात् // 7 / 1 / 83 // उमा भङ्गा तिल इत्येतेभ्यः षष्ठयन्तेभ्यः क्षेत्रेऽर्थे यः प्रत्ययो वा स्यात् / पक्षे ईनञ् / उमाभङ्गे अपि धान्ये एवेष्येते / उमानां क्षेत्रम् उम्यम् औमीनम् / भडन्यम् / भाङ्गीनम् / तिल्यम् / तैलीनम् / योगविभाग उत्तरार्थः / 1933 अलाब्वाश्च कटो रजसि // 7 / 1 / 84 // अलाबूशद्वाञ्चकारादुमा ऋत्विग्वचनस्य ब्राह्मणवचनस्य च त्वप्रत्ययः समानः तेन जातिवचनस्य तलपि भवतीत्यर्थः / उपलक्षणं चेदं तेन ब्रह्मणो भावः कर्म वा प्राणिजात्यत्रि ब्राह्ममित्यपि।