________________ प्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. 389 प्रत्ययः स्यात् स च लित् त्वतलौ च / लित्करणं स्त्रीत्वार्थम् / गोपालपशुपालानां भावः कर्म वा गौपालपशुपालिका। गोपशुपालत्वम् गोपशुपालता / शैष्योपाध्यायिका / कौत्सकुशिकिका / विश्व पक्षी ना च नरः विवोर्भावः कर्म वा वैत्रिका। अत्र 'स्व र्णाल्लध्यादेः' इत्यणि प्राप्ते परत्वादकञ्। एवं भारतबाहुबलिका / 1924 गोत्रचरणाच्छ्लाघात्याकारप्राप्त्यवगमे // 7 / 1 / 75 / / गोत्रवाचिनश्चरणवाचिनश्च शद्वात्तस्य भावे कर्मणि च लिदकञ् प्रत्ययो भवति त्वतलौ च श्लाघादिषु विषयभूतेषु / श्लाघा विकत्थनम् / अत्याकारः पराधिक्षेपः / विषयभावः पुनः श्लाघादीनां क्रियारूपाणां भावकर्मणी प्रति साध्यत्वात् / गोत्रमपत्यं प्रवराध्यायपठितं च / चरणं शाखानिमित्तं कठादि / गाय॑स्य भावः कर्म वा गार्गिका तया श्लाघते। काठिकया विकत्थते / गार्गिकया अत्याकुरुते / काठिकयाविक्षिपति / गार्गिकां प्राप्तवानवगतवान् वा / काठिकामधिगतवान् विज्ञातवान् वा / गार्ग्यत्वेन गार्ग्यतया कठत्वेन कठतया श्लाघते / श्लाघादिष्विति किम् / गार्गम् / काठम् / प्राणिजातिलक्षणोऽञ्। 1925 होत्राभ्य ईयः // 7 / 1 / 76 // होत्राशब्द ऋत्विग्विशेषवचनः / ऋत्विग्विशेषवाचिभ्यस्तस्य भावे कर्मणि ईयः प्रत्ययः स्यात् त्वतलौ च / मैत्रावरुणस्य भावः कर्म वा मैत्रावरुणीयम् / मैत्रावरुणत्वम् / मैत्रावरुणता / एवमग्नीधः अग्निधीयम् / नेष्टुः नेष्ट्रीयम् / पोतुः पोत्रीयम् / ब्राह्मणाच्छंसिनो ब्राह्मणाच्छंसीयम् / हूयते आभिरिति होत्रा ऋच इत्येके / तान्येवोदाहरणानि / मैत्रावरुणादयस्तु ऋग्वचनाः / बहुवचनं स्वरूपविधिनिरासार्थम् / 1926 ब्रह्मणस्त्वः // 7 // 1177 // होत्राभ्य इति वर्तते / ब्रह्मन् इत्येतस्मादृत्विग्वाचिनस्तस्य भावे कर्मणि च त्वः प्रत्ययः स्यात् / ईयापवादः। ब्रह्मणो भावः कर्म वा ब्रह्मत्वम् / होत्राधिकारात् ब्राह्मणपर्यायाज्जातिवाचिनो ब्रह्मन्शब्दात् तलपि भवति / ब्रह्मत्वम् / ब्रह्मता। . इति श्रीसिद्धहैमबृहत्पक्रियायां तद्धितप्रकरणे भावकर्मार्थाः समाप्ताः॥ 1 तलपीति-न केवलं 'भावे त्वतल्' इत्यनेन त्वः किंतु तलपि। अयमर्थः