________________ 388 सिद्धहैमबृहत्प्रक्रिया. [तद्धित भवति / पुरुषस्य भावः कर्म वा पौरुषम् पुरुषत्वं पुरुषता / हृदयस्य भावः कर्म वा हार्दम् / हृदयस्य हृल्लासेति हृद्भावः / हृदयत्वं हृदयता / असमास इति किम् / परमपुरुषत्वम् / परमहृदयत्वम् / सत्पुरुषवम् / सौहृदय्यम् / परमपौरुषं परमहादमित्यादि मा भूत् / अत एव निषेधात् सापेक्षादपि भावप्रत्ययो विज्ञायते / तेन काकस्य काष्ण्य बलाकायाः शौक्ल्यमित्यादि सिद्धम् / पौरुषमिति प्राणिजात्यापि सिद्धम् / समासविषये प्रतिषेधार्थ पुरुषोपादानम् / 1919 श्रोत्रियाद्यलुक् च / / 7 / 171 // श्रोत्रियशब्दात् तस्य भावे कर्मणि चाण प्रत्ययः स्यात् तत्संनियोगे च य इत्यस्य लोपः भवति त्वतलौ च / श्रोत्रियस्य भावः कर्म वा श्रौत्रम् / श्रोत्रियत्वं श्रोत्रियता / चौरादिपाठादकञपि / श्रोत्रियकम् / 1920 योपान्त्याद्गुरूपोत्तमादसुप्रख्यादकञ् // 71 / 72 // त्रिप्रभृतीनामन्त्यमुत्तमम् तत्समीपमुपोत्तमम् उपोत्तमं गुरुय॑स्य तस्मात् यकारोपान्त्यात् सुप्रख्यवर्जितात् तस्य भावे कर्मणि चाकञ् प्रत्ययः स्यात् त्वतलौ च / रमणीयस्य भावः कर्म वा रामणीयकम् रमणीयत्वम् रमणीयता / दार्शनीयकम् / कामनीयकम्। औपाध्यायकम् / पानीयकम् / गुरुग्रहणादनेकव्यञ्जनव्यवधानेऽपि भवति / आचार्यकम् / गुरुग्रहणं दीर्घपरिग्रहार्थ संयोगपरिग्रहार्थ च / अन्यथा दीर्घोत्तमादित्युच्येत / योपान्त्यादिति किम् / कापोतम् / विमानत्वम् / गुरूपोत्तमादिति किम् / क्षत्रियत्वम् ‘कायत्वम् / असुप्रख्यादिति किम् / सुप्रख्यत्वम् / गुणाङ्गत्वात् व्यणपि / सौपख्यम् / 1921 चौरादेः / / 7 / 1 / 73 // चौरादिभ्यस्तस्य भावे कर्मणि चाकञ् प्रत्ययः स्यात् / त्वतलौ च / चौरस्य भावः कर्म वा चौरकम् / चौरिका। धौर्तकम् / धौर्तिका / मानोज्ञकम् / श्रेयरूपकम् / चौरत्वम् / चौरता। यूनो भाव; यौवनकम्, यौवनिका / अत्र नोऽपदस्येत्यन्त्यस्वरादेलकि प्राप्ते / 1922 यूनोऽके // 14 // 50 // युवनशब्दस्याके परेऽन्त्यस्वरादेर्लुग्न स्यात् / इति निषेधान्न भवति / ... 1923 इन्द्राल्लित् // 71 / 74 // द्वन्द्वसमासात्तस्य भावे कर्मणि चाकञ्