SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. ___ 1914 प्राणिजातिवयोऽर्थादञ् // 7 // 1166 // प्राणिजातिवाचिनो वयोवचनाच तस्य भावे कर्मणि वाञ् प्रत्ययः स्यात् / त्वतलौ च / अश्वस्य भावः कर्म वा आश्वम् / अश्वत्वम् / अश्वता / कुमारस्य भावः कर्म वा कौमारं कुमारत्वं कुमारता / प्राणिग्रहणं किम् / तृणत्वं तृणता / जातिग्रहणं किम् / देवदत्तत्वम् / देवदत्तता। 1916 युवादेरण / / 7 / 1 / 67 // युवादिभ्यः शब्देभ्यस्तस्य भावे कर्मणि चाण् प्रत्ययः स्यात् त्वतलौ च / यूनो लिङ्गविशिष्टस्यापि ग्रहणात् युवतेर्भावः कर्म वा यौवनम् युवत्वं युवता / चौरादिपाठाद्यौवनिकेत्यपि भवति / स्थाविरम् / स्थविरत्वम् / स्थविरता। 1916 हायनान्तात् // 71168 // हायनान्तेभ्यः शब्देभ्यस्तस्य भावे कर्मणि चाण् प्रत्ययः स्यात् त्वतलौ च / द्वैहायनम् / द्विहायनत्वम् / द्विहायनता / त्रैहायनम् / चातुर्हायनम् / अत्रावयोवाचित्वात् 'चतुस्नेहायनस्य वयसि' हति णत्वं न भवति / वयसि तु पूर्वेणा त्रैहायणम् / चातुर्हायणम् / 1917 रवृवर्णाल्लघ्वादेः // 169 // लघुरादिर्यस्येवर्णोवर्णस्य तदन्तानाम्नस्तस्य भावे कर्मणि चाण प्रत्ययः स्यात् / त्वतलौ च / शुचेर्भावः कर्म वा शौचम् शुचित्वं शुचिता / शकुनेः शाकुनम् / मुनेर्भावः कर्म वा मौनम् / संमतेः सांमतम् / कवर्भावः कर्म वा काव्यमिति तु राजादिपाठात् / नखरजन्या नाखरजनम् / हरीतक्या हारीतकम् / तितउनस्तैतवम् / पृथोः पार्थवम् / पटोः पाटवम् / लघोर्लाघवम्। वध्वा वाधवम् / पितुः पैत्रम् / आदिग्रहणं समीपमात्रार्थम्। तेन तितउ इत्यत्राव्यवहिते शुच्यादौ चैकवर्णव्यवहिते लघुनि भवति / य्वर्णादिति किम् / घटत्वम् / पटत्वम् / लध्यादेरिति किम्। पाण्डुत्वम्। कण्डूत्वम्। केचित्तु कृशानो र्भावः कर्म वा कार्यानवम् / अरत्नेरारत्नम् अरातेरारातम् इत्यादिष्वपि इच्छन्ति / तन्मतसंग्रहार्थ लध्वादेरिति प्रकृतेविशेषणं न वर्णस्येति व्याख्येयम् / तन्मते संमतेः सांमतमिति न भवति / 1918 पुरुषहृदयादसमासे // 71170 // पुरुषहृदय इत्येताभ्यां तस्य भावे कर्मणि चाण स्यात् त्वतलौ च असमासे न चेदनयोः समासो विषयभूतो
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy