SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ 386 सिद्धहैमबृहत्पक्रिया. [तद्धित निमित्तं येषां प्रवृत्तौ ते गुणाङ्गाः, गुणद्वारेण ये गुणिनि वर्तन्ते न तु गुणवचना एव / मौढयं मूढत्वं मूढता। मौखर्यम् / वैदुष्यम् / राजादि-राज्यम् राजत्वं राजता / काव्यं कवित्वं कविता / ब्राह्मण्यं ब्राह्मणत्वं ब्राह्मणता / चकारो भावे कर्मणि चेत्युभयसमुच्चयार्थः। 1909 अर्हतस्तोत् च // 7 // 161 // अर्हतशद्वात् षष्ठयन्ताद् भावे कर्मणि चार्थे व्यण् प्रत्ययः स्यात् तत्संनियोगे च तकारस्य न्त् इत्यादेशो भवति / अरिहननात् रजोहननात् रहस्याभावाच्च अर्हन् पृषोदरादित्वात् / यद्वा चतुस्त्रिंशतमतिशयान् सुरेन्द्रादिकृतां पूजां वाहति इति अर्हन् / तस्य भावः कर्म वा आर्हन्त्यम् / आर्हन्ती / प्राक्त्वादिति त्वतलौ च / अर्हत्त्वम् / अर्हत्ता। 1910 सहायाद्वा // 1 // 62 // सहायशब्दात् तस्य भावे कर्मणि च व्यण् प्रत्ययो वा स्यात् / वावचनात् पक्षे योपान्त्यलक्षणोऽकञ् / प्राक्त्वादिति त्वतलौ च / सहायस्य भावः कर्म च साहाय्यम् / साहायकम् / सहायत्वम् / सहायता। 1911 सखिवणिग्दूताद्यः // 7 / 1 / 63 // सखिवणिग्दूत इत्येतेभ्यस्तस्य भावे कर्मणि च यः प्रत्ययः स्यात् / प्राक्त्वादिति त्वतलौ च / सख्युर्भावः कर्म वा सख्यम् / सखित्वं सखिता / वणिज्यम् / वणिज्या / वणिक्त्वम् / वणिक्ता / दृत्यम् / दूतत्वं दूतता / राजादेराकृतिगणत्वात् ट्यणपि / वाणिज्यम् / दौत्यम् / 1912 स्तेनान्न लुक च // 71 / 64 // स्तेनशब्दात तस्य भावे कर्मणि च यः प्रत्ययः स्यात्तत्संनियोगे च न इत्येतस्य लुक् स्यात् / प्राक्त्वादिति त्वतलौ च। स्तेनस्य भावः कर्म चा स्तेयम् / स्तेनत्वम् स्तेनता। राजादिदर्शनात् स्तैन्यमित्यपि भवति / 1913 कपिज्ञातेरयण // 7 // 1 // 66 // कपि ज्ञाति इत्येताभ्यां तस्य भावे कर्मणि च एयण प्रत्ययः स्यात् / त्वतलौ च / कपेर्भावः कर्म वा कापेयम् / कपित्वं कपिता / ज्ञातेयम् / ज्ञातित्वं ज्ञातिता / कपेः इकारान्तत्वात् अणि प्राप्ते ज्ञातेश्च प्राणिजातित्वादवि प्राप्ते वचनम् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy