SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 385 बंहिमा बहुलत्वं बहुलता। बाहुल्यम् व्यण / वत्सिमा / वत्सत्वं वत्सता / वात्सम् / वयोलक्षणोऽञ् / एवं प्रियस्य भावः प्रेमा प्रियत्वं प्रियतेत्यादि / 1905 भूलक चेवर्णस्य // 4 // 41 // बहुशब्दस्य ईयसाविमनि च परे भू इत्ययमादेशः स्यादनयोश्चेवर्णस्य लुक् / बहोर्भावः भूमा। 1906 स्थूलदूरयुवहस्वक्षिप्रक्षुद्रस्यान्तस्थादेर्गुणश्च नामिनः // 7 // 4 // 42 // स्थूलादीनां यथासंभवमिमनि णीष्ठेयसुषु च परेष्वन्तस्थादेरवयवस्य लुक् स्यान्नामिनश्च गुणः। इस्वस्य भावो इसिमा। क्षिप्रस्य क्षेपिमा / क्षुद्रस्य क्षोदिमा। 1907 वर्णदृढादिभ्यष्ट्यण च वा / / 7 / 1 / 59 // वर्णविशेषवाचिभ्यो दृढादिभ्यश्च तस्य भावे व्यण इमन् चेत्येतौ प्रत्ययौ वा स्याताम् / प्रात्वादित्यधिकारात् त्वतलौ च। वावचनाद्यश्वाण प्रामोति सोऽपि भवति। शुक्लस्य भावः शौक्ल्यं शुक्लिमा शुक्लत्वं शुक्लता। शितेर्भावः शैत्यं शितिमा शितित्वं शितिता शैतम् / वावचनाद् वर्णान्तस्य पाश्चरूप्यम् / दृढादि-दाढय द्रढिमा दृढत्वं दृढता। वाढयम्। ढिमा। वृढत्वं दृढता / पारिवढ्यं परिवढिमा परिवृढत्वं परिढता / वैमत्यं विमतिमा विमतित्वं विमतिता वैमतम् / सांमत्य संमतिमा संमतित्वं संमतिता सांमतम् / स्वर्णान्तलक्षणोऽण् / टकारो ङयर्थः / अर्हतो भावः कर्म वा आर्हन्त्यम् डी चेत् आर्हन्ती। एवमौचिती यथाकामी सामग्री शैली पारिख्याती आनुपूर्वी / बहुवचनादाकृतिगणोऽयम् / तेन स्थैर्य स्थेमेत्याद्यपि सिद्धम् / 1908 पतिराजान्तगुणागाराजादिभ्यः कर्माण व // 71 / 60 // पत्यन्तेभ्यो राजान्तेभ्यो गुणाङ्गेभ्यो राजादिभ्यश्च पष्ठयन्तेभ्यो भावे कर्मणि च क्रियायां ट्यण प्रत्ययः स्यात् / प्रात्वादित्यधिकारात् त्वतलौ च / पत्यन्त-अधि'पतेभोवः कर्म वा आधिपत्यम् अधिपतिखम् अधिपतिता / एवं नारपत्यम् / बार्हस्पत्यम् / प्राजापत्यम् / सैनापत्यम् / राजान्त-आधिराज्यम् अधिराजत्वम् अधिराजता / एवं सौराज्यम् / यौवराज्यम् / गुणाग-द्रव्याश्रयी गुणः, गुणोऽङ्गं 1 केचित्तु वृढशब्दस्यापि ऋकास्य रादेशमिच्छन्ति इति मतान्तरेणात्र रत्वम् //
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy