SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ 384 सिद्धहैमबृहत्पक्रिया. [तद्धित न शुक्लोऽशुक्लस्तस्य भावोऽशुक्लत्वमशुक्लता / वर्णलक्षणव्यण्वाधया त्वतलावेव / अशौक्ल्यमकायॆमिति च व्यणन्तेन समासः / समासात्तु व्यणि नको वृद्धिः प्रसज्ज्येत / एवमपतेर्भावः कर्म वा अपतित्वम् अपतिता / अत्र पत्यन्तलक्षणव्यणबाधया / अनाधिपत्यम् अगाणपत्यमिति व्यणन्तेन समासः / अराजत्वमराजता / अत्र राजान्तलक्षणव्यण्वाधया। अनाधिराज्यमयौवराज्यमिति ट्यणन्तेन समासः। अमूर्खत्वममूर्खता। अत्र गुणाङ्गलक्षणठ्यण्वाधया। अमौख्यंमजाड्यमिति व्यणन्तेन समासः / अस्थविरत्वमस्थविरता / अत्र वयोलक्षणाञ्वाधया / अस्थाविरमकैशोरमित्यणअन्तेन समासः। अहायनवमहायनता अत्र हायनान्तलक्षणाण्वाधया / अद्वैहायनम् / अत्रैहायनमित्यणन्तेन समासः। अपटुत्वमपटुता / अत्र यसवर्णलक्षणाण्वाधया। अपाटवमलाघवमित्यणन्तेन समासः। अरमणीयत्वमरमणीयता / अत्र योपान्त्यलक्षणाकबाधया / अरामणीयकम् अकामनीयकमित्यकान्तेन समासः / नग्रहणं किम् / प्राजापत्यम् / सैनापत्यम् / तत्पुरुषादिति किम् / न विद्यते पतिरस्य अपतिर्दामः / तस्य भावः कर्म वा आपत्यम् / एवमाराज्यम् आहायनम् आरमणीयकम् / अबुधादेरिति किम् / न बुधः अबुधः तस्य भावः कर्म वाआबुध्यम् / आचतुर्यम् / अत्र राजादित्वात् व्यण् / अथ व्यणन्तानामेषांनञ्समासो भवति वा नवा बुधस्य भावः कर्म वा बौध्यम् न बौध्यमबौध्यमिति ? भवतीत्येके। न भवतीत्यत्ये। 1902 पृथ्वादेरिमन् // 7 / 1 / 58 // पृथ्वादिभ्यस्तस्य भावे इमन् प्रत्ययो वा स्यात् / वावचनाद्यवाणादिः प्रामोति सोऽपि भवति / 1903 पृथुमृदुभृशकृशदृढपरिवृढस्य ऋतो रः // 7 / 4 / 39 // पृथ्वादीनामृकारस्येमनि णीष्ठेयसुषु च परेषु रादेशः स्यात् / पृथोर्भावः प्रथिमा पृथुत्वं पृथुता पार्थवम् / प्रदिमा मृदुत्वं मृदुता मार्दवम् / बहुलस्य भाव इत्यत्र इमनि बहुलस्य 1904 प्रियस्थिरस्फिरोरुगुरुबहुलतृप्रदीर्घवृद्धन्दारकस्येमनि च प्रास्थास्फावरगरवहनपद्राघवर्षद्वन्दम् // 7 / 4 / 38 // प्रियादीनां यथासंभवमिमनि णीष्ठेयसुषु च यथासंख्यं प्रादय आदेशाः स्युः / इत्यादिना वंहादेशः /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy