________________ 383 प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. पदाभिधायिनो भावप्रत्ययेन किमभिधीयते? प्रवृत्तिनिमित्तसंघातः यथा धवखदिरत्वमिति जातिसंहतिः। एतेन अक्षत्वं पादत्वं माषत्वमित्यादीन्यपि व्याख्यातानि / अव्यभिचरितसंबंधास्तु प्रायः कृत्स्वेव भवन्ति / सतो भावः सत्वं सत्ता विद्यमानत्वं विद्यमानता / अत्र हि जातावेव भावप्रत्ययः। नहि सद्वस्तु सत्तासंबन्धस्य व्यभिचरतीति सत्तासंबंधानपेक्षणान्न संबंधे / पाचक इत्यादौ तु संबंधस्य कादाचित्कत्वात् तदपेक्षः पाचकादिशद्धः स्वार्थमभिधत्त इति ततः संबंधे प्रत्ययो युक्तः। तस्मात् सत्सु विद्यमानेषु च पदार्थेषु नित्यसमवायिनी शब्दप्रत्तिहेतुः सत्तैव भावप्रत्ययवाच्या न तु सत्सत्तयोः संबंधः कश्चित् इति / ततः स्थितमेतत् रूड्यादिभ्योऽन्यत्रैव कृत्तद्धितसमासेषु संबंधाभिधानमिति। ' त्वे वा ' इति वचनात स्त्रीपुंसाभ्यां पक्षे नस्नत्रावपि भवतः। स्त्रीत्वं स्त्रीता स्त्रैणम् / पुंस्त्वं पुंस्ता पोस्नमिति / लकारः स्त्रीत्वार्थः। त्वान्तम् आ त्वात्त्वादिः' इति नपुंसकम् / 1899 त्वते गुणः // 3 / 2 / 59 // परतः स्यनू गुणवचनः शब्दस्त्वत इत्येतयोः प्रत्यययोः परयोः पुंवत् स्यात् / पटव्या भावः पटुत्वं पटुता / त्वत इति किम् / पट्टीरूप्यम् / गुण इति किम् / कठीत्वम् / केचित्तु जातिसंज्ञावर्जितस्य विशेषणमात्रस्य पुंवद्भावमिच्छन्ति / पाचिकाया भावः पाचकत्वं पाचकतेत्यादौ / 1900 प्राक्त्वादगडुलादेः // 71 // 56 // त्वतलित्यनुवर्तते / ब्रह्मणस्त्व इत्यत्र यत्त्वशब्दसंकीर्तनं तस्मात् प्राक् त्वतलौ प्रत्ययावधिकृतौ वेदितव्यौ गडुलादीन् वर्जयित्वा / ते उत्तरत्रैवोदाहरिष्यन्ते / अपवादैः समावेशार्थः कर्मणि विधानार्थथारंभः / अगडुलादेरिति किम् / गाडुल्यम् / कामण्डलवम् / गडुलादिषु कमण्डलोः ‘यवर्णाल्लघ्वादेः' इत्यण् / शेषेभ्यस्तु राजादेराकृतिगणत्वात् व्यण् / गडुलादेरपि केचिदिच्छन्ति-गडुलत्वं गडुलता / 1901 नञ् तत्पुरुषाबुधादेः // 7 / 1 / 57 // प्राक्त्वान्नपूर्वाद् तत्पुरुषाद् बुधावन्तवर्जितात्त्वतलौ स्यातामित्ययमधिकारो वेदितव्यः ट्यणादिबाधनार्थम् / 1 लिङ्गानुशासनमेतत् / अस्यार्थश्चायम्- भावे त्वतल्' इति त्वप्रत्ययादारभ्य ब्रह्मणस्त्वमिति त्वमभिव्याप्य ये प्रत्ययाः त्व-य-एयण-अञ्-अण्-अकञ् ईय-त्वस्वरूपास्तदन्तं नाम क्लीबम् /