SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ 382 सिद्धहैमबृहत्प्रक्रिया. [तद्धित संहतिः / गुणशब्देभ्यो गुणे, शुक्लस्य पटस्य भावः शुक्लत्वं शुक्लता / अत्र शुक्लो गुणो भावः। एवं शुक्लतरत्वं शुक्लतमत्वमिति स एव प्रकृष्टः / अणुत्वं महत्वमिति परिमाणलक्षणो गुणः। एकत्वं द्वित्वमिति संख्यालक्षणः / पृथक्त्वं नानात्वमिति भेदलक्षणः / उच्चैस्त्वं नीचैस्त्वमिति उच्छयादिलक्षणः / वृत्तौ पृथगादिशब्दाः पृथग्भूताद्यर्थे सत्वे वर्तन्ते इति प्रत्ययः विग्रहस्तु पृथग्भूतस्य भाव इति / पवादयोऽपि गुणा एवेति पटुत्वं मृदुत्वं तीक्ष्णत्वमित्यादिष्वपि गुणो भावः। समासात् संबंधे, राजपुरुषत्वम् / कृतः संबन्धे-पाचकत्वं पक्तृत्वं कार्यत्वं साधनत्वम् / अत्र क्रियाकारकसंवन्धः। तद्धितात् संबन्धे-औपगवत्वम् / दण्डित्वम् / विपाणित्वम् / अत्रोपगुदण्डादिसंबन्धः / डित्थादेः स्वरूपे, डित्थादेस्तु यदृच्छाशब्दादन्यस्य प्रवृत्तिनिमित्तस्यासंभवात् तस्मिन्नेव स्वरूपे डित्थशब्दवाच्यतया अध्यवसितभेदेऽव्यतिरिक्तेऽपि व्यतिरिक्त इव शब्दप्रत्ययबलात् बुद्धयावगृहीते धर्मे प्रत्ययः / डित्थस्य भावः स्वरूपं डित्थत्वम् / एवं गोजाते वो गोत्वं गोतेति गोशदस्य स्वरूपम् / शुक्लजातेर्भावः शुक्लत्वं शुक्लतेति शुक्लशद्वस्य स्वरूपम् / गवादयो हि यदा जातिमात्रवाचिनस्तदा तेषां शद्धस्वरूपमेव प्रतिनिमित्तम् / तथा ह्यर्थजातौ शब्दार्थयोरभेदेन शब्दस्वरूपमध्यवस्यते यो गोशब्दः स एवार्थ इति / एवं देवदत्तत्वं चन्द्रत्वं सूर्यत्वं दिक्त्वं आकाशत्वम् अभावत्वमिति स्वरूपमेवोच्यते / एके तु यदृच्छाशब्देषु शब्दस्वरूपं संज्ञासंज्ञिसंबंधो वा प्रवृत्तिनिमित्तमिति मन्यन्ते / अन्ये तु डिस्थत्वं देवदत्तत्वमिति वयोऽवस्थाभेदभिन्नव्यक्तिसमवेतं सामान्यम् , चन्द्रत्वं सूर्यत्वमिति कालावस्थाभेदभिन्नव्यक्तिसमवेतं सामान्यं, दिक्त्वं आकाशत्वं अभावत्वमित्युपचरितभेदव्यक्तिसमवेत सामान्य प्रत्ययार्थ इति वदन्तोऽत्रापि जातिमेव त्वतलादिप्रत्ययप्रवृत्तिनिमित्तमभिदधति / ननु च समासकृत्तद्धितेभ्योऽपि भावप्रत्ययेन जातिरेवाभिधीयते गौरखरत्वं लोहितशालित्वं सप्तपर्णत्वं धवखदिरत्वमिति, कुम्भकारत्वं तन्तुवायत्वं स्तम्बरमत्वं, पङ्कजत्वमिति, हस्तित्वं मानुषत्वं क्षत्रियत्वं राजन्यत्वमिति ? उच्यते / समासकृत्तद्धितेषु संबन्धाभिधानमन्यत्र रूट्यभिन्नरूपाव्यभिचरितसंबन्धेभ्यः। तत्र रूढयो गौरखरादय उदाहृता एव / अभिन्नरूपास्तु तद्धिता एव लुबादिभिः संभवन्ति गर्गत्वं पञ्चालत्वमिति / अत्र गर्गादयः शद्धा यात्रओलपि यद्यपि तद्धितान्तास्तथापि मूलप्रकृत्या सह सहविवक्षायामभिन्नरूपत्वात् प्रत्ययोत्पत्तिसंबंधो न्यग्भूत इति अभिन्नशब्दाभिधेयतैव भावप्रत्ययात् प्रतीयते न संबंधः / अथ पश्चालशब्दात् युगपदपत्यजन
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy