SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 381 क्रियायामित्येव / गौरिव गवयः / देवदत्त इव गोमान् / हस्तीव स्थूलः / अत्र द्रव्यगुणविषये सादृश्ये न भवति / कथं देवदत्तवत्स्थूलः यज्ञदत्तवद् गोमानिति ? अत्र तुल्यायामस्तो भवतौ चाहियमाणायां प्रत्ययो भविष्यति / अथोपमानोपमेयक्रिययोः साधनभेदापेक्षायामिह कस्मान्न भवति-ऋचं ब्राह्मणवदयं गाथामधीत इति ? सापेक्षत्वात् / - 1895 मनुनभोऽङ्गिरो वति // 1 / 1 / 24 // मनुस् नभस् अङ्गिरस् इत्येतानि नामानि वति प्रत्यये परे पदसंज्ञानि न स्युः। मनुरिव मनुष्वत् / एवं नभस्वत् / अङ्गिरस्वत् / पदत्वाभावाद्रुर्न भवति षत्वं तु भवति / 1896 तत्र // 7 // 1 // 53 // तत्रेति सप्तम्यन्तादिवार्थे वत् प्रत्ययः स्यात् / मथुरायामिव मथुरावत् पाटलिपुत्रे प्रासादाः। सुन्न इव साकेते परिखा त्रुघ्नवत् / गुरुवद् गुरुपुत्रे वर्तितव्यमित्यादिषु क्रियासादृश्ये पूर्वेणैव सिद्धम् / अक्रियार्थस्त्वारंभः। - 1897 तस्य // 7 // 1 // 54 // तस्येति षष्ठयन्तादिवार्थे वत् प्रत्ययः स्यात् / चैत्रस्येव मैत्रस्य गावश्चैत्रवत् / ब्राह्मणस्येव क्षत्रियस्य दन्ताः ब्राह्मणवत् / अक्रियाविषयसादृश्यार्थ आरंभः। योमविभाग उत्तरार्थः। 1898 भावे त्वल् // 71 // 55 // तस्येति षष्ठयन्ताद् भावेऽभिधेये व तल् इत्येतो प्रत्ययौ स्याताम् / भवतोऽस्मात् अभिधानप्रत्ययौ इति भावः शद्धस्य प्रवृत्तिनिमित्तं द्रव्यसंसर्गी भेदको गुणः। यदाह-यस्य गुणस्य हि भावात् द्रव्ये शद्धनिवेशस्तदभिधाने त्वतलाविति / तत्र ' जातिगुणाजातिगुणे समासकृत्तद्धितात्तु संबंधे / डित्थादेः स्वे रूपे त्वतलादीनां विधिर्भवति ' // तत्र जातिवचनेभ्यो जातौ, गोः शद्भस्य भावो गोत्वं गोता / अत्र गोशद्वजातिर्भावः। गोरर्थस्य भावो गोत्वम् गोता / अत्र गवार्थजातिर्भावः। एवमश्वत्वमश्वता / शुक्लस्य गुणस्य भावः शुक्लत्वं शुक्लतेत्यत्र शुक्लगुणजातिः / रूपस्य भावो रूपत्वं रूपता / रसस्य रसत्वं रसता। अत्र रूपादिगुणजातिः। कत्वं खत्वमिति भिन्नवर्णव्यक्तिसमवेता जातिः। कवर्गत्वं चवर्गत्वमिति ककारादिवर्गव्यक्तिसमवेता जातिः
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy