________________ 380 सिद्धहैमबृहत्मक्रिया. [तद्धित 1891 अत्र च // 7 // 1 // 49 // परिखाशद्धान्निर्देशादेव प्रथमान्तादत्रेति सप्तम्यर्थ एयण प्रत्ययः स्यात् सा चेत् परिखा स्यादिति संभाव्यते / परिखाऽस्यां स्यात् पारिखेयी भूमिः / योगविभागः परिणामिनीत्यस्येह असंबंधार्थः। चकार उत्तरत्राऽस्य स्यादिति परिणामिन्यत्र स्यादिति चोभयस्याप्यनुवृत्त्यर्थः। 1892 तद् // 7 // 1 // 50 // तदिति प्रथमान्तादस्येति षष्ठ्यर्थे परिणामिनि अत्रेति सप्तम्यर्थे च यथाधिकृतं प्रत्ययः स्यात् यत्तत् प्रथमान्तं तच्चेत्स्यादिति संभाव्यते / प्राकार आसामिष्टकानां स्यात् प्राकारीया इष्टकाः। परशव्यमयः। स्यादित्येव / प्राकार इष्टकानाम् / परिणामिनीत्येव / प्रासादोऽस्य चैत्रस्य स्यात् / // इति श्रीसिद्धहैमबृहत्पक्रियायां तद्धित प्रकरणे ईयाधिकारः समाप्तः॥ // अथ भावकर्मार्थाः // 1893 तस्याहे क्रियायां वत् // 71 / 51 // ईयस्य पूर्णोऽवधिः। अर्हतीत्यहम् / 'अच् ' इत्यच् / तस्येति षष्ठयन्तादहेऽर्थे वत् प्रत्ययः स्यात् यत्तदह तच्चेत् क्रिया भवति / राज्ञोऽहं राजवत् वृत्तमस्य राज्ञः। राजखस्य युक्तमस्य राज्ञो वृत्तमित्यर्थः। राजवदवर्तत भरतः / राजाहं वर्तते स्मेत्यर्थः। एवं कुलीनवत् / साधुवत् / स शिरांसि द्विषामाजौ चिच्छेद कृतहस्तवत् / राज्ञि एकस्मिन्नुपमानोपमेयभावासंभवादुत्तरेण न सिद्धयतीति वचनम् / यदा तु राज्ञः सगरादेर्वृत्तस्याहं इदानींतनः कश्चिद्राजेति भेदो विवक्ष्यते तदोत्तरेणैव सिद्धम् / क्रियायामिति किम् / शतस्या: देवदत्तः। राज्ञोऽो मणिः। 1894 स्यादेरिवे // 7 // 1 // 52 // स्याद्यन्तादिवाथै वत् प्रत्ययः स्यात् / इवशद्धः सादृश्यं द्योतयति / तच्चेत् सादृश्यं क्रियायां क्रियाविषयं क्रियागतं भवति / क्षत्रिया इव क्षत्रियवयुध्यन्ते ब्राह्मणाः / अश्ववद्धावति चैत्रः / देवमिव देववत् पश्यति मुनिम् / साधुनेव साधुवदाचरितं मैत्रेण / ब्राह्मणायेव ब्राह्मणवदत्तं क्षत्रियाय। पर्वतादिव पर्वतवदवरोहति आसनात् / स्यादेरिति किम् / गच्छन्नास्त इव मन्दत्वादीप्सितदेशस्य असंप्राप्तेः। अधीयानो नृत्यतीव अङ्गविकारप्रायत्वात् /