________________ प्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. 379 मूत्राय यवागूः। उच्चाराय यवागूः। उच्चाराय यवानम् / पादरोगाय नड्वलोदकम् / यवाग्वादि मूत्रादितया परिणमति न तु तदर्थम् / अथवा तदर्थे इति चतुर्थीविशेषणम् / तदर्थे या चतुर्थी तदन्तात् प्रत्ययः इह तु संपद्यतौ चतुर्थीति न भवति / तस्मै इत्येव / सक्तूनां धानाः / धानानां यवाः / अत्र सत्यपि तादयें संबंधमात्रविवक्षायां षष्ठी। यथा गुरोरिदं मुर्वर्थमिति / भवति च सतोऽप्यविवक्षा यथाऽनुदरा कन्येति / 1887 चर्मण्यञ् // 71 / 45 // चतुर्थ्यन्तात् परिणामिनि तदर्थ चर्मण्यभिधेये अञ् प्रत्ययः स्यात् / वर्धायेदं वार्धम् चर्म। वरत्रायै इदं वारत्रं चर्म / रथोपस्थायेदं राथोपस्थं चर्म / हलाबन्धायेदं हालाबन्धं चर्म / सनङ्गवे इदं सनङ्गव्यं चर्मेति ‘उवर्णयुगादेयं' इति यग्रहणाद्य एव / सनङ्गुश्चर्मविकारः / . 1888 ऋषभोपानहानः // 7 // 1 // 46 // ऋषभ उपानह इत्येताभ्यां चतुर्थ्यन्ताभ्यां परिणामिनि तदर्थे व्यः प्रत्ययः स्यात् / ऋषभाय अयं आर्षभ्यो वत्सः। औपानह्यो मुञ्जः। औपाना काष्ठम् / औपानां चर्मेति चर्मण्यपि परिणामिनि परखादयमेव भवति / . 1889 छदिलेरेयण // 7 // 1 // 47 // छदिस् बलि इत्येताभ्यां चतुर्थ्यन्ताभ्यां परिणाभिनि तदर्थे एयण प्रत्ययः स्यात् / छदिषे इमानि छादिषयाणि तृणानि / बलये इमे बालेयास्तण्डुलाः। चर्मण्यपि परत्वादयमेव भवति / छादिषेयं चर्म / कथमौपधेयः ? उपधीयत इत्युपधेयः। स एव प्रज्ञायणि स्वार्थिके औपधेयः। उपधिः रथाङ्गमिति यावत् / अत उपधेः स्वार्थे एयणिति नारंभणीयम् / 1890 परिखाऽस्य स्यात् // 7 / 1 / 48 // परिखाशब्दानिर्देशादेव प्रथमान्तादस्येति षष्ठयर्थे परिणामिनि एयण प्रत्ययः स्यात् या सा परिखा सा चेत्स्यादिति योग्यतया संभाव्यते / तदित्यनेन यथाधिकृतस्य प्रत्ययस्य विधास्यमानत्वादिहोत्तरत्र च एयणेवानुवर्तते / परिका आसामिष्टकानां स्यादिति पारिखेय्य इष्टकाः। स्यादिति संभावने सामी। इष्टकानां बहुत्वेन संभाव्यत एतत्परिखासां स्यादिति / स्यादिति किम् / पस्खिा इष्टकानाम् / परिणामिनीत्येव / परिखास्य नगरस्य स्यात् /