________________ 'सिद्धहैमबृहत्प्रक्रिया [तद्धित . 1881 क्षुम्नादीनाम् // 2 // 3 / 96 // क्षुम्ना इत्येवमादीनां नकारस्य णो न स्यात् / इति निषेधान्न भवति / आत्मने हितः आत्मनीनः। अत्र नोऽपदस्येत्यन्त्यस्वरादिलोपे प्राप्ते / 1882 ईनेऽध्वात्मनोः // 4 // 48 // अध्वन् आत्मन् इत्येतयोरीनप्रत्यये परेऽन्त्यस्वरादेर्लुग्न स्यात् / इति निषेधान भवति / एवमनात्मनीनः / 1883 पञ्चसर्वविश्वाजनात् कर्मधारये // 7 / 1141 / / पञ्च सर्व विश्व इत्येतेभ्यः पराजनशब्दात् कर्मधारये वर्तमानात् तस्मै हिते ईनः प्रत्ययः स्यात् / ईयापवादः। पञ्चजनेभ्यः पञ्चाजनाय वा हितः पञ्चजनीनः। रथकारपञ्चमस्य चातुर्वर्ण्यस्य पञ्चजन इति संज्ञा। एवं सर्वजनीनः। विश्वजनीनः / कर्मधारय इति किम् / पञ्चानां जनः पञ्चजनः तस्मै हितः पञ्चजनीयः। सर्वो जनोऽस्य सर्वेषां वा जनः सर्वजनः तस्मै हितः सर्वजनीयः। एवं विश्वजनीयः / 1884 महत्सर्वादिकण // 7 // 1 // 42 // महतः सर्वाच्च यो जनशब्दस्तदन्तात् कर्मधारये वर्तमानात् तस्मै हिते इकण् प्रत्ययः स्यात् / महते जनाय हितः माहाजनिकः / सर्वस्मै जनाय हितः सार्वजनिकः। एवं च सर्वजनात् पूर्वेण इन: अनेनेकणिति द्वैरूप्यम् / कर्मधारय इत्येष / महान् जनोऽस्य महाजनः तस्मै हितः महाजनीयः। सर्वेषां जनाय हितं सर्वजनीयम् / 1885 सर्वाण्णो वा // 7 // 1 // 43 // जनात् कर्मधारय इति च निवृत्तम् / सर्वशब्दात् तस्मै हिते णः प्रत्ययो वा स्यात् / सर्वस्मै हितः सार्वः पक्षे ईयः / सर्वीयः। 1886 परिणामिनि तदर्थे // 7 // 44 // हित इति निवृत्तम् / तद्भावः परिणामः सोऽस्यास्तीति परिणामि द्रव्यमुच्यते / तस्मै इति चतुर्थ्यन्तात् तदर्थे चतुर्थ्यन्तार्थार्थे परिणामिनि कारणद्रव्येऽभिधेये यथाधिकृतं प्रत्ययः स्यात् / अङ्गारेभ्य इमानि अङ्गारीयाणि काष्ठानि / अङ्गारार्थानीत्यर्थः / एवं प्राकारीया इष्टकाः। शङ्कव्यं दारु / पिचव्यः कर्पासः। आमिक्ष्यं आमिक्षीयं दधि / ओदन्या ओदनीयास्तण्डुलाः। अपूप्यं अपूपीयम् पिष्टम् / परिणामिनीति किम् / उदकाय कूपः। असये कोशी। न कूपः कोशी वा उदकभावेन परिणमते / तदर्थे इति किम् /