________________ [तद्धित 376 सिद्धहैमबृहत्मक्रिया. स्तण्डुलाः। सुरायै सुर्याः मुरीयास्तण्डुलाः। अपूपादि-अपूपायेदमपूप्यम् अपूपीयम् / तण्डुलाय तण्डुल्यम् तण्डुलीयम् / सादेश्चेत्यधिकारात् तदन्तादपि भवति / यवापूप्यम्। यवापूपीयम् / व्रीहितण्डुल्यम् / व्रीहितण्डुलीयम् / उवर्णान्तात्तु हविरन्नभेदात् परखान्नित्यो यो भवति / चरव्यास्तण्डुलाः। सक्तव्या धानाः / अपूपादिषु येऽन्नभेदशद्धा अपूपादयस्तेषां केनचिदाकारसादृश्येन अर्थान्तरवृत्तौ प्रत्ययार्थमुपादानम्। केचित्तु अपूपादिपठितान्नभेदव्यतिरिक्तानामन्नभेदानां तदन्तविधि नेच्छन्ति / यवसुरीयम् / पिष्टसुरीयम् / यो न भवति / 1870 उवर्णयुगादेर्यः // 7 // 1 // 30 // उवर्णान्ताद् युगादिभ्यश्चा तदोऽर्थेषु यः स्यात् / ईयापवादः। उवर्ण-शंकवे इदं शंकव्यं दारु / पिचव्यः कर्पासः। पारशव्यमयः। कमण्डलव्या मृत्तिका। चरव्यास्तण्डुलाः। सक्तव्या धानाः। युगादि-युगाय हितं युगार्थ युगोऽस्य वा स्यादिति युग्यम् / हविष्यम् / सादेश्चेत्यधिकारात् सुयुग्यम् / अतियुग्यम् / 'गोः स्वरे यः' इत्यनेनैव सिद्धे (युगादिषु ) गोग्रहणं तदन्तार्थम् / तेन सुगव्यम् अतिगव्यमित्यपि सिद्धम् / इह यग्रहणं बाधकबाधनार्थम् / सनङ्गवे इदं सनङ्गव्यं चर्म / अत्र हि परखात् 'चर्मण्यञ्' इति पामोति / 1871 नाभेर्न चादेहांशात् // 7 / 1 / 3.1 // नाभिशद्वाददेहांशवाचिन आ तदोऽर्थेषु यः स्यान्नाभिशदस्य च नभ इत्यादेशः। नाभ्यै नाभये वा हितं नभ्यमञ्जनम् / अरकमध्यवर्ती अक्षधारणश्चक्रावयवो नाभिस्तदर्थ नभ्यम् / यत्तु अरकगण्डरहितं चक्रम् एककाष्ठं तत्र न नाभिरिति तदर्थे नभ्यमित्युपचारात् / नभ्यो वृक्षः नभ्या शिंशपेति नभ्यार्थे वृक्षादौ ताच्छब्द्यान्नभ्यत्वम् इन्द्रायां स्थूणायामिन्द्रवत् / अदेहांशादिति किम् / नाभये हितं नाभ्यं तैलम् / अत्र नभादेशो न भवति / यस्तु प्राण्यङ्गेत्यादिना भवति / 1872 न चोधसः // 7 // 1 // 32 // ऊधसशद्धादा तदोऽर्थेषु यः प्रत्ययः स्यान्नकारश्चान्तादेशो भवति / ईयापवादः। ऊधसे हितं ऊधन्यम् / 1873 शुनो वश्चोदूत् // 7 // 1 // 33 // श्वन्शदादा तदोऽर्थेषु यः प्रत्ययः स्याद्वकारश्च उकारऊकाररूपो भवति। अभेदनिर्देशः सर्वादेशार्थः / शुने हितं शुन्यम् / शून्यम् / नाभि-ऊधस्-श्वन्शद्धान् युगादिषु पठित्वाऽपि शक्यः प्रत्यय आदेशार्थास्तु योगाः।