________________ प्रकरणम् ] सिद्धहैमबृहत्पक्रिया. 375 निपात्येते। पादार्थमुदकं पाद्यम् / निपातनादेव ये पदादेशो न भवति / अर्को मूल्यं पूजनं वा / अघोथे रत्नमध्यम् / 1864 ण्योऽतिथेः // 11 // 24 // अतिथिशद्वात् तदर्थे ण्यः प्रत्ययः स्यात् / अतिथ्यर्थमातिथ्यम् / 1865 सादेश्चातदः // 7 / 1 / 25 // अधिकारोऽयम् / यदित ऊर्ध्वमनुक्रमिष्यामस्तत्र आ तदः-तदिति सूत्रं यावत् केवलस्य सादेश्च विधिर्वेदितव्यः। 1866 हलस्य कर्षे // 7 / 1 / 26 // हलशद्धात् केवलात् सादेश्च निर्देशादेव षष्ठयन्तात् कर्षेऽर्थे यः प्रत्ययः स्यात् / हलस्य कर्को हल्या हल्यो वा / द्वयोर्द्विहल्या / त्रिहल्या / परमहल्या / उत्तमहल्या। बहुहल्यः। यत्र हलं कृष्टं स मार्गः कर्षः। कृष्यते इति कर्षः क्षेत्रमित्यन्ये / 1867 सीतया संगते // 7 // 1 // 27 // सीताशद्वात् केवलात् सादेश्च निर्देशादेव तृतीयान्तात् संगतेऽर्थे यः प्रत्ययः स्यात् / सीतया संगतं सीत्यम् / द्वाभ्यां सीताभ्यां संगतं द्विसीत्यम् / त्रिसीत्यम् / परमसीत्यम् / यस्य पूर्णोऽवधिः। // इति श्रीसिद्धहैमबृहत्पक्रियायां तद्धितपकरणे याधिकारः समाप्तः॥ // अथेयाधिकारः॥ 1868 ईयः // 7 // 1 // 28 // आ तद इत्यनुवर्तते। यदित ऊर्ध्वमनुक्रमिष्यामस्तत्रातदोऽर्थेषु ईय इत्यधिकृतं वेदितव्यम् / 1869 हविरन्नभेदापूपादेर्यो वा // 71 / 29 // हविर्भदवाचिभ्योऽन्नभेदवाचिभ्योऽपूपादिभ्यश्च आतदोऽर्थेषु वा यः प्रत्ययोऽधिक्रियते / ईयापवादः। हविर्भेदः-आमिक्षायै इदं आमिक्ष्यम् / आमिक्षीयम् दधि / पुरोडाशाय इमे पुरोडाश्याः पुरोडाशीयास्तण्डुलाः। हविस्शद्धात्तु परत्वाद्युगादिपाठानित्यमेव यः / अन्नभेद-ओदनाय इमे ओदन्या ओदनीयास्तण्डुलाः। कृशरायै कृशः कृशरीया