________________ 374 सिद्भहैमबृहत्मक्रिया, तद्धित षष्ठयन्ताभ्यां करणेऽर्थे यः प्रत्ययः स्यात् / इष्टं साम्यं ज्ञानं मतिर्वा मतशब्देनोच्यते / करणं साधकतमं कृतिर्वा / मतस्य करणं मत्यम् / मदस्य करणं मद्यम् / 1855 तत्र साधौ / / 7 / 1 / 15 // तत्रेति सप्तम्यन्तात् साधावणे यः प्रत्ययः स्यात् / साधुः प्रवीणो योग्य उपकारको वा / सामनि साधुः सामन्यः / कर्मणि कर्मण्यः / सभायां सभ्यः / शरणे शरण्यः। . 1856 पथ्यतिथिवसतिस्वपतरेयेण् // 7 / 1 / 16 // पथिन् अतिथि वसति स्वपति इत्येतेभ्यस्तत्र साधावेयण प्रत्ययः स्यात् / पथि साधु पाथेयम् / वासतेयम् / स्वापतेयम् / 1857 भक्ताण्णः // 7 // 1 // 17 // भक्तशद्धात् तत्र साधौ णः प्रत्ययः स्यात् / भक्ते साधुर्भाक्तः शालिः। भाक्तास्तण्डुलाः। 1858 पर्षदो ण्यणौ / / 7 / 1 / 18 // पर्षच्छद्धात् तत्र साधै ण्यणेत्येतौ प्रत्ययौ स्याताम् / पर्षदि साधुः पार्षद्यः। पार्षदः। परिषदोऽपीच्छन्त्यन्ये / पारिपद्यः। पारिषदः। 1859 सर्वजनाण्ण्येनौ / / 7 / 1 / 19 // सर्वजनशद्वात् तत्र साधौ ण्य ईनञ् इत्येतौ प्रत्ययौ स्याताम् / सार्वजन्यः। सार्वजनीनः / 1860 प्रतिजनादेरीनञ् // 11 // 20 // प्रतिजनादिभ्यस्तत्र साधावीन प्रत्ययः स्यात् / प्रतिजने साधुः प्रातिजनीनः / अनुजने साधुः आनुजनीन / इदंयुगे साधुः ऐदंयुगीनः। 1861 कथादोरिकण् // 7 // 1 // 21 // कथादिभ्यः सप्तम्यन्तेभ्यः साधावर्थे इकण प्रत्ययः स्यात् / कथायां साधुः काथिकः। वैकथिकः। 1862 देवतान्तात् तदर्थे // 7 / 1 / 22 // देवतान्तात् शद्वरूपात् तदर्थे यः प्रत्ययः स्यात् / अग्निदेवतायै इदमग्निदेवत्यम् / पितृदेवत्यम् / देवदेवत्यम् / देवताशब्देन देयस्य हविरादेः प्रतिग्रहीता स्वामी संप्रदानमुच्यते / . 1863 पाद्याये / / 7 / 1 / 23 // पाद्य अर्घ्य इत्येतौ तदर्थे यप्रत्ययान्तौ