________________ प्रकरणम् ] सिद्धहैमबृहत्प्रक्रिया. 373 तुलाशब्दात् संमितेऽर्थे यः / तुलया संमितं तुल्यं भाण्डम् / निपातनं रूढयर्थम् / तेन न तुलासंमित एवोच्यते किंतु सदृशार्थोऽपि तुल्यशद्धः। गिरिणा तुल्यो हस्ती / मूल्यमिति मूलशद्वात् प्रथमान्तादस्येति षष्ठयर्थे यः तच्च यद्युत्पाटनयोग्यं भवति / मूलमेषामुत्पाटयं मूल्या मुद्गाः / तृतीयान्ताच्चानाम्ये समे च / मूलेनानाम्यं मूल्यम् / मूलं पटाद्युत्पत्तिकारणम् / तेनानाम्यं यत्पटादेविक्रयात् प्राप्यते सुवर्णादि तन्मूल्यम् / मूलेन समो मूल्यः पटः / उपादानेन समानफल इत्यर्थः। वश्य इति वशशद्वाद् द्वितीयान्ताद् गतेऽर्थे यः। वशं गतो वश्यो गौर्विधेयः। इच्छानुवर्तीति यावत् / निपातनं रूढ्यर्थम् / तेनेह न भवति / वशं गतः इच्छां प्राप्तः / अभिप्रेतं गत इत्यर्थः / पथ्य इति पथिन्शद्धादनपेते यः। पथोऽनपेतं पथ्यमोदनादि / निपातनादिह न भवति / पथोऽनपेतं शकटादि / वयस्य इति वयःशद्वात् तृतीयान्तात् तुल्येऽर्थे यः। वयसा तुल्यो वयस्यः सखा / निपातनादिह न भवति / वयसा तुल्यः शत्रुः / धेनुष्येति धेनुशद्वाद् विशिष्टायां यः षोऽन्तश्च / धेनुष्या या गोमता गोपालायाधमणेन चोत्तमाय आ ऋणप्रदानादोहार्थ धेनुर्दीयते सा धेनुरेव धेनुष्या। पीतदुग्धेति यस्याः प्रसिद्धिः। गार्हपत्य इति गृहपतिशद्धात् तृतीयान्तात् संयुक्तेऽर्थे व्यः प्रत्ययः। गृहपतिना संयुक्तो गार्हपत्य एवंनामा कश्चिदग्निः। निपातनादन्यत्र न भवति। जन्य इति जनीशद्बाद वधूवाचिनो द्वितीयान्ताद् वहत्सु अभिधेयेषु जनशद्धाच्च षष्ठयन्वाजल्पेऽर्थे यः। जनीं वहन्ति जन्या जामातुर्वयस्या उच्यन्ते / जनस्य जल्पः जन्यः / निपातनादन्यत्र न भवति / धर्म्य इति धर्मशद्वात् तृतीयान्तात् प्राप्येऽर्थे पञ्चम्यन्ताच्चानपेतेऽर्थे यः। धर्मेण प्राप्यं धर्म्यम् सुखम् / धर्मादनपेतं च धर्म्यम् / यद्धर्ममनुवर्तते / 1852 नौविषेण तार्यवध्ये // 7 / 1 / 12 // नौ विष इत्येताभ्यां निर्देशादेव तृतीयान्ताभ्यां यथासंख्यं तार्ये वध्ये चार्थे यः प्रत्ययः स्यात् / नावा तार्य नाव्यमुदकम् / नाव्या नदी। विषेण वध्यो विष्यः। 1853 न्यायार्थादनपेते // 7 // 1 // 13 // न्याय अर्थ इत्येताभ्यां निर्देशादेव पञ्चम्यन्ताभ्यामनपेतेऽर्थे यः प्रत्ययः स्यात् / न्यायादनपेतं न्याय्यम् / अर्थादनपेतमर्थ्यम् / 1854 मतमदस्य करणे // 71 / 14 // मतमदशद्धाभ्यां निर्देशादेव