SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ 372 सिद्धहैमबृहत्पक्रिया. [तद्धित द्वयोः शकटयोहलयोः सीरयोर्वा वोढा द्विशकटः। द्विहलः। द्विसीरः। द्वे शकटे हले सीरे वा वहति द्वैशकटः। द्वैहलिकः / द्वैसीरिकः। अन्ये तु शकटहलसीरेभ्य इदमर्थविवक्षायां प्रत्ययमिच्छन्ति न वहत्यर्थे तन्मते द्विशकट इत्येव भवति / हलसीराभ्यां तु तदन्तविधि नेच्छन्त्येव / 1848 विध्यत्यनन्येन // 7 // 18 // तमिति वर्तते / तमिति द्वितीयान्ताद् विध्यत्यर्थे यः प्रत्ययः स्यात् , स चेद्विध्यन्नात्मनोऽन्येन करणेन न विध्यति / पादौ विध्यन्ति पद्याः शर्कराः। ऊरू विध्यन्ति ऊरव्याः कण्टकाः। उरो विध्यन्ति उरस्या वाताः। अनन्येनेति किम् / चौरं विध्यति चैत्रः / अत्र हि चैत्रश्चौरं विध्यन् पाषाणेन धनुषा वा विध्यति / शर्करादयस्तु न करणेन विध्यन्ति / यच्च मुखतेक्ष्ण्यादिकरणं तत्तेषामात्मनो नान्यत् / यद्येवं पादौ विध्यन्ति शर्कराः मुखेनेति करणप्रयोगे कस्मान भवति / अस्ति हि अत्रानन्यत् करणमिति ? उच्यते। अत्राप्रधानस्य सापेक्षत्वात् / साधनमधाने हि तद्धिते क्रियाऽप्रधानमेव / अनभिधानाद्वा / मुखेन पद्या इत्युक्ते हि मुखस्योपलक्षणत्वं सहयोगो वा प्रतीयते न व्यधनं प्रति करणत्वमिति / 1849 धनगणाल्लब्धरि // 7119 // द्वितीयान्ताद् धनशब्दाद् गणशब्दाच लब्धयर्थे यः प्रत्ययः स्यात् / धनं लब्धा धन्यः। गणं लब्धा गण्यः। लब्धेति तृन्नन्तम् / 1850 णोऽन्नात् // 7 / 1 / 10 // अन्नशब्दाद् द्वितीयान्ताल्लब्धरि णः प्रत्ययः स्यात् / अन्नं लब्धा आन्नः। 1851 हृद्यपद्यतुल्यमूल्यवश्यपथ्यवयस्यधनुष्यागार्हपत्यजन्यधर्म्यम् // 7 / 1 / 11 / / हृयादयः शब्दा यथास्वमर्थविशेषेषु यपत्ययान्ता निपात्यन्ते / हृद्य इति हृदयशब्दात् षष्ठयन्तात् प्रियेऽर्थे बन्धने च वशीकरणमन्त्रे यः प्रत्ययो निपात्यते / हृदयस्य प्रियं हृद्यमौषधम् / हृयो देशः / हृदयस्य बंधनो हृयो देशः। हृदयस्य बंधनो हृयो वशीकरणमंत्रः / हृदयस्य हृल्लासलेखाण्ये इति हृदादेशः / निपातनं रूढ्यर्थ तेनेह न भवति / हृदयस्य प्रियः पुत्रः / पद्य इति पदशब्दात् प्रथमान्तात् दृश्यत्वोपाधिकादस्मिनिति सप्तम्यर्थे यः। पदमस्मिन् दृश्यं पद्यः कर्दमः। नातिद्रवो नातिशुष्को यत्र प्रतिमुद्रोत्पादनेन पदं द्रष्टुं शक्यते / तुल्य इति
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy